छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःसप्तदशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तद्यदृक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये जुहुयादृचामेव तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टं सन्दधाति ॥ ४ ॥
स एतां पुनरभ्यतपत् त्रयीं विद्याम् । तस्यास्तप्यमानाया रसं भूरिति व्याहृतिम् ऋग्भ्यो जग्राह ; भुवरिति व्याहृतिं यजुर्भ्यः ; स्वरिति व्याहृतिं सामभ्यः । अत एव लोकदेववेदरसा महाव्याहृतयः । अतः तत् तत्र यज्ञे यदि ऋक्तः ऋक्सम्बन्धादृङ्निमित्तं रिष्येत् यज्ञः क्षतं प्राप्नुयात् , भूः स्वाहेति गार्हपत्ये जुहुयात् । सा तत्र प्रायश्चित्तिः । कथम् ? ऋचामेव, तदिति क्रियाविशेषणम् , रसेन ऋचां विर्येण ओजसा ऋचां यज्ञस्य ऋक्सम्बन्धिनो यज्ञस्य विरिष्टं विच्छिन्नं क्षतरूपमुत्पन्नं सन्दधाति प्रतिसन्धत्ते ॥

तदेव विवृणोति –

भूरिति व्याहृतिमित्यादिना ।

प्रथमोऽतःशब्दो यत इत्यस्मिन्नर्थे ।

यद्दृक्त इति ।

ऋक्शब्दस्तस्मिन् ।

उक्तप्रायश्चित्तमेवाऽऽकाङ्क्षापूर्वकं विवृणोति –

कथमित्यादिना ।

क्रियाविशेषणमिति ।

यज्ञस्य क्षतं सन्दधातीति यत्तदृचामेव रसने सन्दधातीत्यर्थः । ओजसा सन्दधातीति सम्बन्धः ॥३ -४॥