तथा च यथोक्ते साधने सतीत्यर्थः । यथा पूर्वस्मिन्प्रायश्चित्ते यज्ञस्य क्षतमिव रसने होता सन्दधाति तथा द्वितीयतृतीयप्रायश्चित्तयोरपि यजुषां साम्नां च रसेनाध्वर्युरुद्गाता च तत्क्षतं संधत्त इत्याह –
पूर्ववदिति ।
होत्राद्यपराधाधीनयज्ञभ्रंशे प्रायश्चित्तमुक्त्वा ब्रह्मापराधकृते यज्ञनशे किं प्रायश्चित्तमित्याशङ्क्याऽऽह –
ब्रह्मेति ।
यथा यथोक्तप्रायश्चित्ते लिङ्गं दर्शयति –
त्रय्या हीति ।
ब्रह्मणस्त्रयीसारत्वे प्रमाणमाह –
अथ केनेति ।
साधारणकार्यस्य साधारणसामग्रीजन्यत्वनियमाद्वेदत्रयसाधारणे ब्रह्मत्वे वेदत्रयसाधारणमेव प्रायश्चित्तं वाच्यमित्येको न्यायो दर्शितः ।
संप्रत्यस्यैव वेदैकत्वप्रसिद्धेर्ब्रह्मणः सर्ववेदार्थाभिज्ञस्य ज्ञानमाहात्म्येनैव दोषनिरासान्नान्यत्प्रायश्चित्तं विधेयमिति न्यायान्तरमाह –
न्यायान्तरं वेति ॥५ -६॥