छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःसप्तदशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया वीर्येण यज्ञस्य विरिष्टं सन्दधाति भेषजकृतो ह वा एष यज्ञो यत्रैवंविद्ब्रह्मा भवति ॥ ८ ॥
तद्यथा लवणेन सुवर्णं सन्दध्यात् । क्षारेण टङ्कणादिना खरे मृदुत्वकरं हि तत् । सुवर्णेन रजतमशक्यसन्धानं सन्दध्यात् । रजतेन तथा त्रपु, त्रपुणा सीसम् , सीसेन लोहम् , लोहेन दारु, दारु चर्मणा चर्मबन्धनेन । एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया वीर्येण रसाख्येनौजसा यज्ञस्य विरिष्टं सन्दधाति । भेषजकृतो ह वा एष यज्ञः — रोगार्त इव पुमांश्चिकित्सकेन सुशिक्षितेन एष यज्ञो भवति । कोऽसौ ? यत्र यस्मिन्यज्ञे एवंवित् यथोक्तव्याहृतिहोमप्रायश्चित्तवित् ब्रह्मा ऋत्विग्भवति स यज्ञ इत्यर्थः ॥

वस्तुस्वभाववैचित्र्यादुत्पन्नस्यापि क्षतस्य केनचित्सन्धानं भवतीत्यत्र दृष्टान्तानाह –

तद्यथेत्यादिना ।

किं तत्र साधनमिति तद्दर्शयति –

क्षारेणेति ।

खरे सुवर्णे वह्निसंयुक्ते द्रवीभूते क्षारप्रक्षेपेण ट्ङ्कणादिना मृदुकरणं मिथोऽवयवसंयोजनं सन्धानं प्रसिद्धमित्यर्थः ।

रजतं सुवर्णेन स्वरसतस्तावदशक्यसन्धानं तथाऽपि वह्निसंयोगपूर्वक पूर्ववदेव तत्रापि प्रसिद्धं सन्धानमित्याह –

सुवर्णेनेति ।

रजतेनेत्यादावपि यथोक्तं द्रष्टव्यम् । सन्दधाति ब्रह्मेति शेषः । भेषजेनेव कृतः संस्कृत इति यावत् ।

तदेव स्फुटयति –

रोगार्त इति ।

भवति संस्कृत इति शेषः ॥७ -८॥