छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःसप्तदशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
मानवो ब्रह्मैवैक ऋत्विक्कुरूनश्वाभिरक्षत्येवंविद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश्चर्त्विजोऽभिरक्षति तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् ॥ १० ॥
मानवो ब्रह्मा मौनाचरणान्मननाद्वा ज्ञानवत्त्वात् ; ततो ब्रह्मैवैकः ऋत्विक् कुरून् कर्तॄन् — योद्धॄनारूढानश्वा बडबा यथा अभिरक्षति, एवंवित् ह वै ब्रह्मा यज्ञं यजमानं सर्वांश्च ऋत्विजोऽभिरक्षति, तत्कृतदोषापनयनात् । यत एवं विशिष्टो ब्रह्मा विद्वान् , तस्मादेवंविदमेव यथोक्तव्याहृत्यादिविदं ब्रह्माणं कुर्वीत, नानेवंविदं कदाचनेति । द्विरभ्यासोऽध्यायपरिसमाप्त्यर्थः ॥

ऋत्विजि ब्रह्मणि मानवशब्दप्रवृत्तौ निमित्तमाह –

मौनेति ।

ज्ञानातिशयस्तच्छब्दार्थः । कर्तॄनभिरक्षतीति सम्बन्धः ।

उक्तमर्थं दृष्टान्तेन प्रकटयति –

योद्धॄनित्यादिना ।

प्रकरणार्थमुपसंहरति –

एवमिति ॥१०॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य सप्तदशः खण्डः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतयां च्छान्दोग्योपनिषद्भाष्यटीकायां चतुर्थोऽध्यायः ॥