वृत्तमनूद्य वर्तिष्यमाणाध्यायस्य सङ्गतिं सङ्गिरते –
सगुणेति ।
विद्यान्तरं पञ्चाग्निविद्यातिरिक्ता सगुणविद्या । तच्छीलिनां तन्निष्ठानामिति यावत् । तामेव गतिमर्चिरादिलक्षणामित्यर्थः । ततो गतिद्वयात्तृतीया च विद्याकर्मरहितानामिति शेषः ।
अथ क्रमेण मुक्तिसम्भवादुत्तरा गतिरुच्यतां किमिति दक्षिणा तृतीया च संसाररूपा गतिरतिनिकृष्टा व्यपदिश्यते तत्राऽऽह –
कष्टतरेति ।
सगुणब्रह्मविद्यावतामर्चिराद्यां गतिमुक्त्वा समुच्चितानामसमुच्चितानां कर्मणां संसारगतिप्रभेदरूपं फलं वक्तुमयमारम्भ इत्यर्थः ।
कर्मविधिश्च धनसम्पत्तौ सत्यां भवति । तत्सम्पत्तिश्च ब्राह्मणस्य श्रैष्ठ्ये सत्येव सम्भवतीति श्रैष्ठ्यसिद्धये प्राणोपासनं पूर्वत्रानुक्तं वक्तव्यमित्यन्तरग्रन्थसङ्गतिं वदन्प्रसङ्गं करोति –
प्राणः श्रेष्ठ इत्यादिना ।
प्राणो ब्रह्मेत्यादिवाक्यमादिशब्दार्थः । उदाहृतानुदाहृतश्रुत्यन्तरसमुच्चयार्थश्चकारः ।
प्राणस्य वागादिभ्यः श्रैष्ठ्यमुक्तमाक्षिपति –
स कथमिति ।
सर्वैर्वागादिभिः संहत्य प्राणस्य कार्यकरत्वे सम्प्रतिपन्ने स एव कथं श्रेष्ठो निर्धार्यते तेषामन्यतमस्यैव श्रैष्ठ्यं किं न स्यादित्यर्थः ।
तस्यैवोपास्यतया श्रैष्ठ्यमाशङ्क्य वागादीनामन्यतमस्योपास्यत्वमपास्य प्राणस्यैव नोपास्यत्वं हेत्वभावादित्याक्षेपान्तरमाह –
कथं चेति ।