छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
सगुणब्रह्मविद्याया उत्तरा गतिरुक्ता । अथेदानीं पञ्चमेऽध्याये पञ्चाग्निविदो गृहस्थस्य ऊर्ध्वरेतसां च श्रद्धालूनां विद्यान्तरशीलिनां तामेव गतिमनूद्य अन्या दक्षिणादिक्सम्बन्धिनी केवलकर्मिणां धूमादिलक्षणा, पुनरावृत्तिरूपा तृतीया च ततः कष्टतरा संसारगतिः, वैराग्यहेतोः वक्तव्येत्यारभ्यते । प्राणः श्रेष्ठो वागादिभ्यः प्राणो वाव संवर्ग इत्यादि च बहुशोऽतीते ग्रन्थे प्राणग्रहणं कृतम् , स कथं श्रेष्ठो वागादिषु सर्वैः संहत्यकारित्वाविशेषे, कथं च तस्योपासनमिति तस्य श्रेष्ठत्वादिगुणविधित्सया इदमनन्तरमारभ्यते —

वृत्तमनूद्य वर्तिष्यमाणाध्यायस्य सङ्गतिं सङ्गिरते –

सगुणेति ।

विद्यान्तरं पञ्चाग्निविद्यातिरिक्ता सगुणविद्या । तच्छीलिनां तन्निष्ठानामिति यावत् । तामेव गतिमर्चिरादिलक्षणामित्यर्थः । ततो गतिद्वयात्तृतीया च विद्याकर्मरहितानामिति शेषः ।

अथ क्रमेण मुक्तिसम्भवादुत्तरा गतिरुच्यतां किमिति दक्षिणा तृतीया च संसाररूपा गतिरतिनिकृष्टा व्यपदिश्यते तत्राऽऽह –

कष्टतरेति ।

सगुणब्रह्मविद्यावतामर्चिराद्यां गतिमुक्त्वा समुच्चितानामसमुच्चितानां कर्मणां संसारगतिप्रभेदरूपं फलं वक्तुमयमारम्भ इत्यर्थः ।

कर्मविधिश्च धनसम्पत्तौ सत्यां भवति । तत्सम्पत्तिश्च ब्राह्मणस्य श्रैष्ठ्ये सत्येव सम्भवतीति श्रैष्ठ्यसिद्धये प्राणोपासनं पूर्वत्रानुक्तं वक्तव्यमित्यन्तरग्रन्थसङ्गतिं वदन्प्रसङ्गं करोति –

प्राणः श्रेष्ठ इत्यादिना ।

प्राणो ब्रह्मेत्यादिवाक्यमादिशब्दार्थः । उदाहृतानुदाहृतश्रुत्यन्तरसमुच्चयार्थश्चकारः ।

प्राणस्य वागादिभ्यः श्रैष्ठ्यमुक्तमाक्षिपति –

स कथमिति ।

सर्वैर्वागादिभिः संहत्य प्राणस्य कार्यकरत्वे सम्प्रतिपन्ने स एव कथं श्रेष्ठो निर्धार्यते तेषामन्यतमस्यैव श्रैष्ठ्यं किं न स्यादित्यर्थः ।

तस्यैवोपास्यतया श्रैष्ठ्यमाशङ्क्य वागादीनामन्यतमस्योपास्यत्वमपास्य प्राणस्यैव नोपास्यत्वं हेत्वभावादित्याक्षेपान्तरमाह –

कथं चेति ।