छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ १ ॥
यो ह वै कश्चित् ज्येष्ठं च प्रथमं वयसा श्रेष्ठं च गुणैरभ्यधिकं वेद, स ज्येष्ठश्च ह वै श्रेष्ठश्च भवति । फलेन पुरुषं प्रलोभ्याभिमुखीकृत्य आह — प्राणो वाव ज्येष्ठश्च वयसा वागादिभ्यः ; गर्भस्थे हि पुरुषे प्राणस्य वृत्तिर्वागादिभ्यःपूर्वं लब्धात्मिका भवति, यया गर्भो विवर्धते । चक्षुरादिस्थानावयवनिष्पत्तौ सत्यां पश्चाद्वागादीनां वृत्तिलाभ इति प्राणो ज्येष्ठो वयसा भवति । श्रेष्ठत्वं तु प्रतिपादयिष्यति — ‘सुहय’ इत्यादिनिदर्शनेन । अतः प्राण एव ज्येष्ठश्च श्रेष्ठश्च अस्मिन्कार्यकरणसङ्घाते ॥

प्राणस्य श्रेष्ठत्वं ज्येष्ठत्वमित्यादिगुणविधानार्थमेव तावत्प्रथममारभ्यते –

यो ह वै ज्येष्ठं चेति ।

आद्यं चोद्यं परिहरति –

प्रथममिति ।

प्राणस्यैवोपासनं न वागादीनामित्येतदनन्तरमारभ्यतेऽथ ह प्राण उच्चिक्रमिषन्नित्यादिनेति द्वितीयं चोद्यमुद्धरति –

इदमनन्तरमिति ।

कोऽसौ ज्येष्ठत्वश्रेष्ठत्वगुणो वेदितव्य इत्यत आह –

फलेनेति ।

कुतो वागादिभ्यो ज्यैष्ठ्यं प्राणस्य प्रतीतं सर्वे हि वागादयः सप्राणाः सहैव गर्भस्थे स्वतो वृत्तिभागिनो भवन्ति तत्राऽऽह –

गर्भस्थे हीति ।

तत्र गर्भविवृद्धिदर्शनं प्रमाणयति –

ययेते ।

कदा तर्हि वागादीनां वृत्तिलाभस्तत्राऽऽह –

चक्षुरादीति ।

प्राणस्य ज्यैष्ठ्यं प्रतिपादितं निगमयति –

इति प्राण इति ।

गुणद्वयमुपास्यत्वाय दर्शितं निगमयति –

अत इति ॥१॥