छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति वाग्वाव वसिष्ठः ॥ २ ॥
यो ह वै वसिष्ठं वसितृतममाच्छादयितृतमं वसुमत्तमं वा यो वेद, स तथैव वसिष्ठो ह भवति स्वानां ज्ञातीनाम् । कस्तर्हि वसिष्ठ इति, आह — वाग्वाव वसिष्ठः, वाग्मिनो हि पुरुषा वसन्ति अभिभवन्त्यन्यान् वसुमत्तमाश्च, अतो वाग्वसिष्ठः ॥

तदर्थत्वेनैव गुणान्तरं दर्शयति –

यो ह वा इति ।

वसुमत्तमं धनवत्त्वादन्येषां निवासकारणमित्यर्थः । तथैवेत्युपासनानुसारेणेति यावत् । वसिष्ठो ह भवतीति वासयिता वेत्यर्थः ।

वाचो वसिष्ठत्वं समर्थयते –

वाग्मिनो हीति ।

वसुमत्तमाश्च तेनान्यान्निवासयन्तीति शेषः ॥२॥