छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
ते ह प्राणाः प्रजापतिं पितरमेत्योचुर्भगवन्को नः श्रेष्ठ इति तान्होवाच यस्मिन्व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्येत स वः श्रेष्ठ इति ॥ ७ ॥
ते ह ते हैवं विवदमाना आत्मनः श्रेष्ठत्वविज्ञानाय प्रजापतिं पितरं जनयितारं कञ्चिदेत्य ऊचुः उक्तवन्तः — हे भगवन् कः नः अस्माकं मध्ये श्रेष्ठः अभ्यधिकः गुणैः ? इत्येवं पृष्टवन्तः । तान् पितोवाच ह — यस्मिन् वः युष्माकं मध्ये उत्क्रान्ते शरीरमिदं पापिष्ठमिवातिशयेन जीवतोऽपि समुत्क्रान्तप्राणं ततोऽपि पापिष्ठतरमिवातिशयेन दृश्येत कुणपमस्पृश्यमशुचिं दृश्येत, सः वः युष्माकं श्रेष्ठ इत्यवोचत् काक्वा तद्दुःखं परिजिहीर्षुः ॥

कञ्चिद्विराजं कश्यपादीनामन्यतमं वेत्यर्थः । शरीरस्य पापिष्ठत्वं पापकार्यप्रधानत्वम् । इवशब्दोऽवधारणार्थः । उक्तमेवार्थं संक्षिप्याऽऽह –

कुणपमिति ।

त्यक्तप्राणं शवरूपमिति यावत् ।

ननु प्रजापतिः सर्वज्ञो मुख्यमेव प्राणं किमिति श्रेष्ठं नाभिवदति तत्राऽऽह –

काक्वेति ।

अयं श्रेष्ठ इत्युक्ते यत्तेषां वागादीनां दुःखं तत्परिहर्तुमिच्चन्प्रजापतिः स्वरभङ्गोपायविशेषेण श्रेष्ठमुक्तवान्न स्फुटमित्यर्थः ॥७॥