छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ ह प्राण उच्चिक्रमिषन्स यथा सुहयः पड्वीशशङ्कून्सङ्खिदेदेवमितरान्प्राणान्समखिदत्तं हाभिसमेत्योचुर्भगवन्नेधि त्वं नः श्रेष्ठोऽसि मोत्क्रमीरिति ॥ १२ ॥
एवं परीक्षितेषु वागादिषु, अथ अनन्तरं ह स मुख्यः प्राणः उच्चिक्रमिषन् उत्क्रमितुमिच्छन् किमकरोदिति, उच्यते — यथा लोके सुहयः शोभनोऽश्वः पड्वीशशङ्कून् पादबन्धनकीलान् परीक्षणाय आरूढेन कशया हतः सन् सङ्खिदेत् समुत्खनेत् समुत्पाटयेत् , एवमितरान्वागादीन्प्राणान् समखिदत् समुद्धृतवान् । ते प्राणाः सञ्चालिताः सन्तः स्वस्थाने स्थातुमनुत्सहमानाः अभिसमेत्य मुख्यं प्राणं तमूचुः — हे भगवन् एधि भव नः स्वामी, यस्मात् त्वं नः श्रेष्ठोऽसि ; मा च अस्माद्देहादुत्क्रमीरिति ॥

परीक्षितेषु श्रेष्ठतारहितेषु निरूप्य निश्चितेष्वित्येतत् । पदनसीलाः पादास्तेषां संहतिः पड्विस्तस्या ईशा नियामकाः शङ्कवोवर्णविकारश्छान्दसः । तान्यथोक्तानश्वो युगपदुत्पाटयेद्यथेति दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह – एवमिति ॥१२॥