वागादीनां स्वामी श्रैष्ठ्यादिगुणः प्राणोऽस्मीति विद्यादिति प्रधानविद्यामुपदिश्य तद्दर्शनाङ्गभूतान्नवासोदृष्टिविधानार्थे प्रक्रमे प्रथममन्नदृष्टिं विधातुं प्रसङ्गं प्रकुरुते –
स होवाचेति ।
मुख्यस्य प्राणस्य प्रष्टृत्वं वागादीनां प्रतिवक्तृत्वं च काल्पनिकमित्याह –
मुख्यमिति ।
यदिदमित्युक्तमेव च यत्पदं वाक्यार्थकल्पनार्थं यदन्नमित्यत्रानूद्यते ।
तद्वा एतदित्याद्युत्तरवाक्यस्य पूर्ववाक्यादर्थभेदाभावमाशङ्क्याऽऽह –
प्राणस्येति ।
प्राणशब्दं विहायानशब्दप्रयोगे तात्पर्यमाह –
सर्वप्रकारेति ।
अन चेष्टायामितिधातुजस्यानशब्दस्योपादानं सर्वप्रकारचेष्टया प्राणस्य व्याप्तिगुणप्रदर्शनार्थम् । तथा च यः कोऽपि दहति शोषयति प्लावयति वा स सर्वोऽपि प्राण एवेति युक्तं प्राणस्यान इति नामेत्यर्थः । प्रत्यक्षं पूर्वोक्तधातुजन्म नामेति यावत् ।
उक्तमेवार्थं समर्थयते –
प्रादीति ।
अनशब्दस्येति शेषः । न प्राणस्य सर्वचेष्टाप्तिरित्येवकारार्थः । तथा च प्राणादिशब्दोपादाने विशेषव्याप्तिरेवेति स्थिते सतीत्यर्थः । अन इति प्रत्यक्षमिदं नाम सर्वान्नानामत्तुर्नामग्रहणमिति सम्बन्धः ।
तदेव व्याचष्टे –
सर्वान्नानामिति ।
ततश्च प्राणशब्दस्य प्राणविदः सर्वमन्नं चेत्तद्विदुषो भक्ष्याभक्ष्यविभागासिद्धौ तद्विषयं शास्त्रं विरुध्येतेत्याशङ्क्याऽऽध्यात्मिकं रूपं हित्वाऽऽधिदैविकेन रूपेण तस्य सर्वान्नत्वे विभागशास्त्रमाध्यात्मिकपरिच्छेदविषयत्वेनाविरुद्धमित्याह –
प्राणभूतत्वादिति ।
प्राणभूतो विद्वानित्यत्र श्रुत्यन्तरं संवादयति –
प्राणादिति ॥१॥