छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःद्वितीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स होवाच किं मे वासो भविष्यतीत्याप इति होचुस्तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति लम्भुको ह वासो भवत्यनग्नो ह भवति ॥ २ ॥
स ह उवाच पुनः प्राणः — पूर्ववदेव कल्पना । किं मे वासो भविष्यतीति । आप इति होचुर्वागादयः । यस्मात्प्राणस्य वासः आपः, तस्माद्वा एतदशिष्यन्तः भोक्ष्यमाणा भुक्तवन्तश्च ब्राह्मणा विद्वांसः एतत्कुर्वन्ति । किम् ? अद्भिः वासस्थानीयाभिः पुरस्तात् भोजनात्पूर्वम् उपरिष्टाच्च भोजनादूर्ध्वं च परिदधति परिधानं कुर्वन्ति मुख्यस्य प्राणस्य । लम्भुको लम्भनशीलो वासो ह भवति ; वाससो लब्धैव भवतीत्यर्थः । अनग्नो ह भवति । वाससो लम्भुकत्वेनार्थसिद्धैवानग्नतेति अनग्नो ह भवतीत्युत्तरीयवान्भवतीत्येतत् ॥

प्राणविद्याङ्गत्वेनान्नदृष्टिरुपदिष्टा । संप्रति तदङ्गत्वेन वासोदृष्टिं प्रस्तौति –

स होवाचेति ।

अत्रापि प्राणस्य प्रष्टृत्वं वागादीनां प्रतिवक्तृत्वं च कल्पितमेवेत्याह –

पूर्ववदिति ।

अपां प्राणं प्रति वासोरूपत्वे गमकमाह –

यस्मादिति ।

वासोदृष्टिफलमाचष्टे –

लम्भुक इति ।

अनग्नो ह भवतीत्यस्य पौनरुक्त्यमाशङ्क्यार्थविशेषमाह –

वासस इति ।

आचमनान्तरं प्राणविदो विधीयत एवंविदशिष्यन्नाचामेदिति श्रुतेरित्याशङ्क्याऽऽह –

भोक्ष्यमाणस्येति ।

आदिपदेन प्रतिवचने गृह्येते ।