छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःद्वितीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स होवाच किं मे वासो भविष्यतीत्याप इति होचुस्तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति लम्भुको ह वासो भवत्यनग्नो ह भवति ॥ २ ॥
भोक्ष्यमाणस्य भुक्तवतश्च यदाचमनं शुद्ध्यर्थं विज्ञातम् , तस्मिन् प्राणस्य वास इति दर्शनमात्रमिह विधीयते — अद्भिः परिदधतीति ; न आचमनान्तरम् — यथा लौकिकैः प्राणिभिरद्यमानमन्नं प्राणस्येति दर्शनमात्रम् , तद्वत् ; किं मेऽन्नं किं मे वास इत्यादिप्रश्नप्रतिवचनयोस्तुल्यत्वात् । यद्याचमनमपूर्वं तादर्थ्येन क्रियेत, तदा कृम्याद्यन्नमपि प्राणस्य भक्ष्यत्वेन विहितं स्यात् । तुल्ययोर्विज्ञानार्थयोः प्रश्नप्रतिवचनयोः प्रकरणस्य विज्ञानार्थत्वादर्धजरतीयो न्यायो न युक्तः कल्पयितुम् । यत्तु प्रसिद्धमाचमनं प्रायत्यार्थं प्राणस्यानग्नतार्थं च न भवतीत्युच्यते, न तथा वयमाचमनमुभयार्थं ब्रूमः । किं तर्हि, प्रायत्यार्थाचमनसाधनभूता आपः प्राणस्य वास इति दर्शनं चोद्यत इति ब्रूमः । तत्र आचमनस्योभयार्थत्वप्रसङ्गदोषचोदना अनुपपन्ना । वासोऽर्थ एव आचमने तद्दर्शनं स्यादिति चेत् , न, वासोज्ञानार्थवाक्ये वासोर्थापूर्वाचमनविधाने तत्रानग्नतार्थत्वदृष्टिविधाने च वाक्यभेदः । आचमनस्य तदर्थत्वमन्यार्थत्वं चेति प्रमाणाभावात् ॥

सर्वप्राणिभोग्येऽन्ने तस्यान्नमितिदृष्टिवदाचमनीयास्वप्सु तस्य विधीयते वासोदृष्टिरित्युक्तं व्यतिरेकद्वारा विवृणोति –

यदीति ।

तादर्थ्येनानग्नतार्थत्वेनेति यावत् ।

अथ पूर्वमन्नदृष्टिरेव विधीयते सर्वान्नभक्षणस्य प्रमाणविरुद्धत्वादिह त्वपूर्वमाचमनमविरोधाद्विधीयतामित्याशङ्क्याऽऽह –

तुल्ययोरिति ।

एकस्याऽऽचमनस्य शुद्ध्यर्थत्वमनग्नतार्थत्वं च वक्तुमशक्यं विरोधादित्याशङ्क्याऽऽह –

यत्त्विति ।

विरोधो यथा स्यात्तथेति यावत् ।

तर्हि कीदृगाचमनं विवक्षितमित्याह –

किं तर्हीति ।

प्रयतस्य भावः प्रायत्यं तदर्था याऽऽचमनक्रिया तत्साधनभूतास्वप्सु वासःसङ्कल्पनं क्रियान्तरमत्र विधित्सितमित्याह –

प्रायत्येति ।

क्रियाभेदे फलितमाह –

तत्रेति ।

अन्यार्थास्वप्स्वन्यार्थत्वचिन्तने प्रमाणविरोधाद्विधियोगेन वासोर्थमाचमनान्तरमेव विधेयं तत्र चानग्नतार्थत्वचिन्तनमुचितमिति शङ्कार्थः ।

वासोर्थापूर्वाचमनविधाने तत्रानग्नतार्थत्वदृष्टिविधाने च वाक्यभेदप्रसङ्गात्प्रसिद्धाचमनसाधनभूतास्वप्सु वासोदृष्टिपरमेव च वाक्यमित्युत्तरमाह –

नेत्यादिना ।

वासोर्थत्वमन्यार्थत्वं दृष्ट्यर्थत्वमित्युक्ते प्रमाणस्यैकस्य वाक्यस्याप्रमाणत्वप्रसङ्गादिति यावत् ॥२॥