वाक्यशेषं पूरयति –
तस्येति ।
महत्त्वद्वारा विषयोपभोगकामुकस्य कर्मविधायि शास्त्रं श्येनादिशास्त्रवदनर्थफलमेवेत्याशङ्क्याऽऽह –
महत्त्वे हीति ।
तस्येति प्रकृतमन्थाख्यकर्मोक्तिः । कालादीत्यादिशब्दो द्रव्यादिसंग्रहार्थः । दैक्षं दीक्षायां भवं मौञ्ज्यभ्यञ्जनादि न सर्वमेवायमनुतिष्ठति । प्रकृतिधर्मा हि विकृतावनुवर्तन्ते । प्रकृतिवद्विकृतिः कर्तव्येति न्यायात् । न चेदं कर्म कस्यचिद्विकृतिरतो यथोक्तधर्मवत्त्वमेवात्र विवक्षितमित्यर्थः ।
दीक्षित्वेत्यनेन विवक्षितं धर्मान्तरमाह –
उपसदिति ।
उपसदो नामेष्टयः प्रवर्ग्याहस्सु प्रसिद्धाः । तासु व्रतं पयोमात्रभक्षणं तदुपेतो भूत्वा मन्थं सम्पाद्य जुहोतीति वाजसनेयके समानप्रकरणे श्रवणादिति यावत् । पिष्टं कृत्वा तदाममपक्वमेव दधिमधुनोः सम्बन्धिपात्रे प्रक्षिप्येति सम्बन्धः । औदुम्बरत्वे नियमः । पात्रस्याऽऽकारे तु विकल्पः ।
कथमश्रुतं पात्रमत्र कल्प्यते तत्राऽऽह –
श्रुत्यन्तरादिति ।
औदुम्बरे केशाकारे कंसे चमसे वेति वाजसनेये श्रवणात्सर्वशाखाप्रत्ययन्यायेनापेक्षितं पात्रमत्र गृहीतमित्यर्थः । आवसथसम्बन्धी लौकिकोऽग्निरावसथ्यो विविक्षितो यस्मिनौपासनाख्यं कर्म क्रियते । आज्यस्य हुत्वेति सम्बन्धः । आवापस्थानमाहुतिप्रक्षेपप्रदेशो गृह्योक्तः ॥४॥