छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःद्वितीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ यदि महज्जिगमिषेदमावास्यायां दीक्षित्वा पौर्णमास्यां रात्रौ सर्वौषधस्य मन्थं दधिमधुनोरुपमथ्य ज्येष्ठाय श्रेष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् ॥ ४ ॥
यथोक्तप्राणदर्शनविदः इदं मन्थाख्यं कर्म आरभ्यते —

गोदोहनवदधिकृताधिकारमिदं कर्म प्राणविदोऽस्मिन्नधिकारोऽस्तीत्याह –

यथोक्तेति ।

अनन्तरं प्राणविद्यानिष्पत्तेरिति शेषः ।