छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःद्वितीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
वसिष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत्प्रतिष्ठायै स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत्सम्पदे स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेदायतनाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् ॥ ५ ॥
समानमन्यत् , वसिष्ठाय प्रतिष्ठायै सम्पदे आयतनाय स्वाहेति, प्रत्येकं तथैव सम्पातमवनयेत् हुत्वा ॥

वसिष्ठाय स्वाहेत्यादिवाक्यं पूर्ववाक्येन तुल्यार्थमित्याह –

समानमिति ।

तुल्यत्वमेव स्पष्टयति –

वसिष्ठायेति ।

स्वाहेति मन्त्रं समुच्चार्य हुत्वेति सम्बन्धः । तथैव प्रथमहोमानन्तरमित्यर्थः ॥५॥