छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःद्वितीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ प्रतिसृप्याञ्जलौ मन्थमाधाय जपत्यमो नामास्यमा हि ते सर्वमिदं स हि ज्येष्ठः श्रेष्ठो राजाधिपतिः स मा ज्यैष्ठ्यꣳ श्रैष्ठ्यꣳ राज्यमाधिपत्यं गमयत्वहमेवेदं सर्वमसानीति ॥ ६ ॥
अथ प्रतिसृप्य अग्नेरीषदपसृत्य अञ्जलौ मन्थमाधाय जपति इमं मन्त्रम् — अमो नामास्यमा हि ते ; अम इति प्राणस्य नाम । अन्नेन हि प्राणः प्राणिति देहे इत्यतो मन्थद्रव्यं प्राणस्य अन्नत्वात् प्राणत्वेन स्तूयते अमो नामासीति ; कुतः ? यतः अमा सह हि यस्मात्ते तव प्राणभूतस्य सर्वं समस्तं जगदिदम् , अतः । स हि प्राणभूतो मन्थो ज्येष्ठः श्रेष्ठश्च ; अत एव च राजा दीप्तिमान् अधिपतिश्च अधिष्ठाय पालयिता सर्वस्य । सः मा मामपि मन्थः प्राणो ज्यैष्ठ्यादिगुणपूगमात्मनः गमयतु, अहमेवेदं सर्वं जगदसानि भवानि प्राणवत् । इति - शब्दो मन्त्रपरिसमाप्त्यर्थः ॥

आहुत्यानन्तर्यमथशब्दार्थः । भवतु प्राणस्येदं नाम मन्थस्य तु कथं मन्त्रार्थत्वमित्याशङ्क्याऽऽह –

अन्नेन हीति ।

प्रतिज्ञातेऽर्थे प्रश्नपूर्वकं हेतुमाह –

कुत इति ।

अतश्चामो नामासीति पूर्वेण सम्बन्धः ।

हेतुं व्याचष्टे –

यस्मादिति ॥६॥