छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःद्वितीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तदेष श्लोको यदा कर्मसु काम्येषु स्त्रियꣳ स्वप्नेषु पश्यति समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने तस्मिन्स्वप्ननिदर्शने ॥ ८ ॥
तदेतस्मिन्नर्थे एष श्लोको मन्त्रोऽपि भवति — यदा कर्मसु काम्येषु कामार्थेषु स्त्रियं स्वप्नेषु स्वप्नदर्शनेषु स्वप्नकालेषु वा पश्यति, समृद्धिं तत्र जानीयात् , कर्मणां फलनिष्पत्तिर्भविष्यतीति जानीयादित्यर्थः ; तस्मिंस्त्र्यादिप्रशस्तस्वप्नदर्शने सतीत्यभिप्रायः । द्विरुक्तिः कर्मसमाप्त्यर्था ॥

अनन्तरं जपकर्मणः सकाशादिति शेषः । तदेव स्पष्टयति –

मन्त्रस्येति ।

मन्त्रस्यैकैकेन पादेन मन्थस्यैकैकं ग्रासं भक्षयतीति योजना । भोजनं मन्थरूपमिति सम्बन्धः ।

तत्कथं सवितुः स्यात्प्राणस्य हि मन्थद्रव्यमन्नमित्युक्तं तत्राऽऽह –

प्राणमिति ।

उच्यते सवितुर्भोजनमिति शेषः ।

प्राणादित्ययोरेकत्वे फलितं वाक्यार्थमाह –

आदित्यस्येति ।

मन्थरूपं तद्भोजनमिति पूर्वेण सम्बन्धः ।

प्रार्थनाविषयं भोजनमेव विशिनष्टि –

येनेति ।

तस्यैव विशेषणान्तरं श्रेष्ठमित्यादि ।

स्थितिकारणत्वमुक्त्वा जनकत्वं पक्षान्तरमाह –

अतिशयेनेति ।

जगद्व्याप्तौ फलदाने ध्यातुः शैघ्र्यम् ।

किमिति भोजने कथ्यमाने ध्यानमुच्यते तत्राऽऽह –

विशिष्टेति ।

शुद्धधीत्वं ध्यानकारणमुक्त्वा प्रकृतकर्मवत्प्रेप्सितमहत्त्वे हेतुत्वादपि ध्यानमनुष्ठेयमित्याह –

अथवेति ।

सावित्रं रूपमुक्तम् । नियमेनौदुम्बरं वैकल्पिकाकारे विशेषः । पात्रं प्रक्षाल्य पिबतीति सम्बन्धः ।

मन्थलेपं पात्रं प्रक्षाल्य पीत्वाऽऽचमनपूर्वकमग्नेः पश्चिमभागे कृष्णाजिनव्यवहितायां केवलायां वा भूमौ प्राक्शिरा भूत्वा शयीतेत्याह –

पीत्वेति ।

शयानस्य कर्तव्यं दर्शयति –

वाचंयम इति ।

तस्य स्वप्ने कथञ्चिदुत्तमस्त्रीदर्शने शुभागमः सूच्यत इत्याह –

स एवंभूत इति ॥७-८॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य द्वितीयः खण्डः ॥