अनन्तरं जपकर्मणः सकाशादिति शेषः । तदेव स्पष्टयति –
मन्त्रस्येति ।
मन्त्रस्यैकैकेन पादेन मन्थस्यैकैकं ग्रासं भक्षयतीति योजना । भोजनं मन्थरूपमिति सम्बन्धः ।
तत्कथं सवितुः स्यात्प्राणस्य हि मन्थद्रव्यमन्नमित्युक्तं तत्राऽऽह –
प्राणमिति ।
उच्यते सवितुर्भोजनमिति शेषः ।
प्राणादित्ययोरेकत्वे फलितं वाक्यार्थमाह –
आदित्यस्येति ।
मन्थरूपं तद्भोजनमिति पूर्वेण सम्बन्धः ।
प्रार्थनाविषयं भोजनमेव विशिनष्टि –
येनेति ।
तस्यैव विशेषणान्तरं श्रेष्ठमित्यादि ।
स्थितिकारणत्वमुक्त्वा जनकत्वं पक्षान्तरमाह –
अतिशयेनेति ।
जगद्व्याप्तौ फलदाने ध्यातुः शैघ्र्यम् ।
किमिति भोजने कथ्यमाने ध्यानमुच्यते तत्राऽऽह –
विशिष्टेति ।
शुद्धधीत्वं ध्यानकारणमुक्त्वा प्रकृतकर्मवत्प्रेप्सितमहत्त्वे हेतुत्वादपि ध्यानमनुष्ठेयमित्याह –
अथवेति ।
सावित्रं रूपमुक्तम् । नियमेनौदुम्बरं वैकल्पिकाकारे विशेषः । पात्रं प्रक्षाल्य पिबतीति सम्बन्धः ।
मन्थलेपं पात्रं प्रक्षाल्य पीत्वाऽऽचमनपूर्वकमग्नेः पश्चिमभागे कृष्णाजिनव्यवहितायां केवलायां वा भूमौ प्राक्शिरा भूत्वा शयीतेत्याह –
पीत्वेति ।
शयानस्य कर्तव्यं दर्शयति –
वाचंयम इति ।
तस्य स्वप्ने कथञ्चिदुत्तमस्त्रीदर्शने शुभागमः सूच्यत इत्याह –
स एवंभूत इति ॥७-८॥