छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःतृतीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
वेत्थ यथासौ लोको न सम्पूर्यत३ इति न भगव इति वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति नैव भगव इति ॥ ३ ॥
वेत्थ यथा असौ लोकः पितृसम्बन्धी — यं प्राप्य पुनरावर्तन्ते, बहुभिः प्रयद्भिरपि येन कारणेन न सम्पूर्यते इति । न भगव इति प्रत्याह । वेत्थ यथा येन क्रमेण पञ्चम्यां पञ्चसङ्ख्याकायामाहुतौ हुतायाम् आहुतिनिर्वृत्ता आहुतिसाधनाश्च आपः पुरुषवचसः पुरुष इत्येवं वचोऽभिधानं यासां हूयमानानां क्रमेण षष्ठाहुतिभूतानां ताः पुरुषवचसः पुरुषशब्दवाच्या भवन्ति पुरुषाख्यां लभन्त इत्यर्थः । इत्युक्तो नैव भगव इत्याह ; नैवाहमत्र किञ्चन जानामीत्यर्थः ॥

पितृलोकसम्बन्धिनं लोकमेव व्याकरोति –

यं प्राप्येति ।

आहुतिनिर्वृत्ता इत्यस्य व्याख्यानमाहुतिसाधनाश्चेति । अपूर्वरूपाणामपां भूतान्तरसमुच्चयार्थश्चकारः । अथवा पयोघृतादिरूपेणाऽऽहुतिं साधयन्तीति चाऽऽहुत्या पुनरपूर्वात्मना निष्पन्ना इत्यर्थः ।

क्रमेणेति ।

श्रद्धासोमवृष्ट्यन्नरेतसां हवनद्वारेणेति यावत् । षष्ठाहुतिभूतानामन्त्येष्टिविधानेन शरीराहुतिद्वारा सूक्ष्मतां गतानामित्यर्थः ॥३॥