छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःतृतीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स ह गौतमो राज्ञोऽर्धमेयाय तस्मै ह प्राप्तायार्हां चकार स ह प्रातः सभाग उदेयाय तं होवाच मानुषस्य भगवन्गौतम वित्तस्य वरं वृणीथा इति स होवाच तवैव राजन्मानुषं वित्तं यामेव कुमारस्यान्ते वाचमभाषथास्तामेव मे ब्रूहीति स ह कृच्छ्री बभूव ॥ ६ ॥
यतः पञ्च पञ्चसङ्ख्याकान्प्रश्नान् राजन्यबन्धुः राजन्या बन्धवोऽस्येति राजन्यबन्धुः स्वयं दुर्वृत्त इत्यर्थः, अप्राक्षीत् पृष्टवान् । तेषां प्रश्नानां नैकञ्चन एकमपि नाशकं न शक्तवानहं विवक्तुं विशेषेणार्थतो निर्णेतुमित्यर्थः । स ह उवाच पिता — यथा मा मां वत्स त्वं तदा आगतमात्र एव एतान्प्रश्नान् अवद उक्तवानसि — तेषां नैकञ्चन अशकं विवक्तुमिति, तथा मां जानीहि, त्वदीयाज्ञानेन लिङ्गेन मम तद्विषयमज्ञानं जानीहीत्यर्थः । कथम् । यथा अहमेषां प्रश्नानाम् एकं चन एकमपि न वेद न जाने इति — यथा त्वमेवाङ्ग एतान्प्रश्नान् न जानीषे, तथा अहमपि एतान्न जाने इत्यर्थः । अतो मय्यन्यथाभावो न कर्तव्यः । कुत एतदेवम् । यतो न जाने ; यद्यहमिमान्प्रश्नान् अवेदिष्यं विदितवानास्मि, कथं ते तुभ्यं प्रियाय पुत्राय समावर्तनकाले पुरा नावक्ष्यं नोक्तवानस्मि — इत्युक्त्वा स ह गौतमः गोत्रतः राज्ञः जैवलेः अर्धं स्थानम् एयाय गतवान् । तस्मै ह गौतमाय प्राप्ताय अर्हाम् अर्हणां चकार कृतवान् । स च गौतमः कृतातिथ्यः उषित्वा परेद्युः प्रातःकाले सभागे सभां गते राज्ञि उदेयाय । भजनं भागः पूजा सेवा सह भागेन वर्तमानो वा सभागः पूज्यमानोऽन्यैः स्वयं गोतमः उदेयाय राजानमुद्गतवान् । तं होवाच गौतमं राजा — मानुषस्य भगवन्गौतम मनुष्यसम्बन्धिनो वित्तस्य ग्रामादेः वरं वरणीयं कामं वृणीथाः प्रार्थयेथाः । स ह उवाच गौतमः — तवैव तिष्ठतु राजन् मानुषं वित्तम् ; यामेव कुमारस्य मम पुत्रस्य अन्ते समीपे वाचं पञ्चप्रश्नलक्षणाम् अभाषथाः उक्तवानसि, तामेव वाचं मे मह्यं ब्रूहि कथय — इत्युक्तो गौतमेन राजा स ह कृच्छ्री दुःखी बभूव — कथं त्विदमिति ॥

अननुशिष्य त्वामन्वशिषमिति कथमुक्तवानस्मीत्याशङ्क्याऽऽह –

यत इति ।

नैकञ्चनेत्युक्तमेव नञ्पदं नाशकमिति सम्बन्धं दर्शयितुं पुनरुपात्तम् । अतो मां प्रति तव मिथ्यावादिता सिद्धेति शेषः ।

पिता स्वकीयमिथ्यावादित्वशङ्कां परिहरति –

स होवाचेति ।

यथा मा त्वमित्यादिवाक्यं पूरयित्वा व्याख्यायानन्तरवाक्यमाकाङ्क्षापूर्वकमुत्थापयति –

कथमित्यादिना ।

तद्व्याचष्टे -

यथेति ।

अज्ञानाविशेषोऽतःशब्दार्थः । अन्यथाभावो ज्ञातेऽपि विषये तावनुक्तिरिति यावत् ।

त्वदीयमज्ञानं कुतो हेतोर्मया ज्ञातव्यमित्याशङ्कामुद्भाव्यानन्तरवाक्येनोत्तरमाह –

कुत इत्यादिना ।

अतस्तव पात्रभूतस्यानुपदेशान्मदीयमज्ञानं ज्ञातव्यमिति शेषः । अर्हणां योग्यां पूजामित्यर्थः । सभागपदं सप्तम्यन्तं राजविषयं प्रथमान्तं गौतमविषयमिति भेदः ।

गौतममागतं योगक्षेमार्थिनं बुद्ध्वा राजा प्रसन्नः सन्नुक्तवानित्याह –

तं होवाचेति ।

तर्हि कृतकृत्यस्य तव किमित्यागमनमित्याशङ्क्याऽऽह –

यामेवेति ।

कृच्छ्रीभावमभिनयति –

कथमिति ॥५ -६॥