छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःचतुर्थः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
‘पञ्चम्यामाहुतावापः’ इत्ययं प्रश्नः प्राथम्येनापाक्रियते, तदपाकरणमनु इतरेषामपाकरणमनुकूलं भवेदिति । अग्निहोत्राहुत्योः कार्यारम्भो यः, स उक्तो वाजसनेयके — तं प्रति प्रश्नाः । उत्क्रान्तिराहुत्योर्गतिः प्रतिष्ठा तृप्तिः पुनरावृत्तिर्लोकं प्रत्युत्थायी इति । तेषां च अपाकरणमुक्तं तत्रैव — ‘ते वा एते आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविशतस्ते अन्तरिक्षमेवाहवनीयं कुर्वाते वायुं समिधं मरीचीरेव शुक्लामाहुतिं ते अन्तरिक्षं तर्पयतस्ते तत उत्क्रामत’ (शत. ब्रा. ११ । ६ । २ । ६) इत्यादि ; एवमेव पूर्ववद्दिवं तर्पयतस्ते तत आवर्तेते । इमामाविश्य तर्पयित्वा पुरुषमाविशतः । ततः स्त्रियमाविश्य लोकं प्रत्युत्थायी भवति इति । तत्र अग्निहोत्राहुत्योः कार्यारम्भमात्रमेवंप्रकारं भवतीत्युक्तम् , इह तु तं कार्यारम्भमग्निहोत्रापूर्वविपरिणामलक्षणं पञ्चधा प्रविभज्य अग्नित्वेनोपासनमुत्तरमार्गप्रतिपत्तिसाधनं विधित्सन् आह —

ननु यथाप्रश्नमेव प्रतिवचनमुचितं पञ्चमं तु प्रश्नं प्राथम्येन प्रतिवदता क्रमो निराकृतस्तत्र किं कारणमत आह –

पञ्चम्यामिति ।

अर्थक्रममनुसृत्य पाठक्रमोऽभिधातव्य इत्यर्थः ।

ननु वाजसनेयकेऽग्निहोत्रप्रकरणेऽग्निहोत्राहुत्यपूर्वपरिणामं जगदित्युक्तं तदेवेहापि विवक्ष्यत इति चेत्किमनेन पिष्टपेषणन्यायेनेत्याशङ्क्यार्थभेदं वक्तुमग्निहोत्रप्रकरणस्थितमर्थमनुवदति –

अग्निहोत्राहुत्योरिति ।

उक्तप्रकारमेव प्रदर्शयन्प्रथमं याज्ञवल्क्यस्य जनकं प्रति पट्प्रश्नानुत्थापयति –

तं प्रतीति ।

कार्यारम्भस्तच्छब्दार्थः । अग्निहोत्राहुत्यन्नापूर्वपरिणामो जगदिष्यते । तत्राग्निहोत्रे सायं प्रातश्च हुतयोराहुत्योरस्माल्लोकादुत्क्रान्तिः । उत्क्रान्तयोः परलोकं प्रति गतिः । गतयोस्तत्र प्रतिष्ठा । प्रतिष्ठितयोः स्वाश्रये सम्पाद्यमाना तृप्तिः । तृप्तिमापाद्यावस्थितयोः पुनरिमं लोकं प्रत्यावृत्तिः । आवृत्तयोराश्रयः पुमान्कथममुं लोकं प्रत्युत्थानशीलो भवतीति कार्यारम्भमधिकृत्य पट्प्रश्नाः प्रवृत्ता इत्यर्थः ।

तत्रैव वाजसनेयके याज्ञवल्क्यं प्रति जनकस्य प्रतिवचनं दर्शयति –

तेषां चेति ।

अपूर्वरूपे खल्वाहुती यजमानमुत्क्रामन्तं परिवेष्ट्योत्क्रामतः । ते च धूमादिना यजमानेऽन्तरिक्षमाविशति तदाश्रितत्वात्तदाविशतः । ते पुनरन्तरिक्षस्थयजमानानुकूलतया स्थिते स्वयमन्तरिक्षाधिकरणे तदाहवनीयमिव कुर्वाते । आहुत्यधिकरणस्याऽऽहवनीयत्वात् तत्र वायुं समिधमिव कुरुतः । वायुनाऽऽन्तरिक्षस्य समिध्यमानत्वात् । शुक्लां शुद्धामाहुतिमिव मरीचीरेवाऽऽदधाते । मरीचीनामन्तरिक्षे व्याप्तत्वात् । ते चान्तरिक्षस्थे तन्निष्ठं यजमानं फलोन्मुखमादधाते । ते पुनरन्तरिक्षादुत्क्रामति यजमाने सहोत्क्रामतः । यजमाने च द्युलोकमाविशति सहाऽऽविशतः । तमाविश्य तमेवाऽऽहवनीयं कुर्वाते आदित्यं समिधमित्याद्यन्तरिक्षवदेवोक्तम् । यथा वाऽऽहुती पूर्वमन्तरिक्षं तर्पयत इत्युक्तं तथैव द्युलोकस्थयजमानं फलदानेन सुखिनमातन्वाते । ते चाऽऽरब्धक्षये ततो द्युलोकाद्यजमाने पृथिवीगाविशत्यब्भूते सहाऽऽवर्तेते । पृथिवीं चाऽऽविश्य व्रीह्यादिना स्वाश्रयं श्लेपयित्वा रेतःसिघ्मं पुरुषमाश्रयद्वारेणाऽऽविशतः । पुरुषाच्च रेतोद्वारा द्वितीयां प्रकृतिमाविश्य गर्भीभूतं कर्मानुष्ठानयोग्यं देहभागिनमापादयतः । ततोऽसौ पारलौकिकं कर्मानुष्ठायान्ते लोकं प्रत्युत्थानशीलो भवति । इति सर्वं जनकेनोक्तमित्यर्थः ।

तथाऽपि कथमर्थभेदसिद्धिरित्याशङ्क्योक्तमेव संक्षिप्याऽऽह –

तत्रेति ।

वाजसनेयकं सप्तम्यर्थः ।

प्रकृतश्रुतेरर्थविशेषं दर्शयति –

इह त्विति ।

पञ्चधा द्युपर्जन्यपृथिवीपुरुषयोषित्प्रकारैरिति यावत् ।