छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःचतुर्थः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति ॥ २ ॥
तस्मिन्नेतस्मिन् यथोक्तलक्षणेऽग्नौ देवा यजमानप्राणा अग्न्यादिरूपा अधिदैवतम् । श्रद्धाम् अग्निहोत्राहुतिपरिणामावस्थारूपाः सूक्ष्मा आपः श्रद्धाभाविताः श्रद्धा उच्यन्ते, ‘पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ (छा. उ. ५ । ३ । ३) इत्यपां होम्यतया प्रश्ने श्रुतत्वात् ; ‘श्रद्धा वा आपः श्रद्धामेवारभ्य प्रणीय प्रचरन्ति’ (तै. ब्रा. ३ । २ । ४ । २८) इति च विज्ञायते । तां श्रद्धाम् अब्रूपां जुह्वति ; तस्या आहुतेः सोमो राजा अपां श्रद्धाशब्दवाच्यानां द्युलोकाग्रौ हुतानां परिणामः सोमो राजा सम्भवति — यथा ऋग्वेदादिपुष्परसा ऋगादिमधुकरोपनीतास्ते आदित्ये यशआदिकार्यं रोहितादिरूपलक्षणमारभन्ते इत्युक्तम् — तथेमा अग्निहोत्राहुतिसमवायिन्यः सूक्ष्माः श्रद्धाशब्दवाच्या आपः द्युलोकमनुप्रविश्य चान्द्रं कार्यमारभन्ते फलरूपमग्निहोत्राहुत्योः । यजमानाश्च तत्कर्तार आहुतिमया आहुतिभावना भाविता आहुतिरूपेण कर्मणा आकृष्टाः श्रद्धाप्समवायिनो द्युलोकमनुप्रविशय सोमभूता भवन्ति । तदर्थं हि तैरग्निहोत्रं हुतम् । अत्र तु आहुतिपरिणाम एव पञ्चाग्निसम्बन्धक्रमेण प्राधान्येन विवक्षित उपासनार्थं न यजमानानां गतिः । तां त्वविदुषां धूमादिक्रमेणोत्तरत्र वक्ष्यति, विदुषां च उत्तरा विद्याकृताम् ॥

अध्यात्माधिदैवविभागेन देवान्विशदयति –

यजमानेति ।

प्रत्ययविशेषत्वेन श्रद्धाया होम्यत्वानुपपत्तिरित्याशङ्क्य श्रद्धां व्याकरोति –

अग्निहोत्रेति ।

किञ्च प्रश्नप्रतिवचनयोरेकार्थत्वात्प्रश्ने चापां होम्यतया श्रुतत्वात्प्रतिवचनेऽपि ताः श्रद्धाशब्दिता होम्यतया विवक्षिता इत्याह –

पञ्चम्यामिति ।

अप्सु श्रद्धाशब्दस्य वृद्धव्यवहारप्रयोगाभावान्नैवमित्याशङ्क्याऽऽह –

श्रद्धेति ।

कथमापः श्रद्धाशब्देन प्रसिद्धवदुच्यन्ते तत्राऽऽह –

श्रद्धामिति ।

श्रद्धापूर्वकहोममुद्दिश्य पयःसोमाज्यादिसाधनं संपाद्य जुहोतीति तैत्तिरीयकाः पठन्ति । तथा चाप्सु श्रद्धाशब्दः सम्भवतीत्यर्थः ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति –

यथेत्यादिना ।

उक्तं मधुविद्यायामिति शेषः । चान्द्रं कार्यं चन्द्रसमीपस्थं तत्सदृशं शरीरमित्यर्थः ।

तथाऽपि यजमानानां कथं फलवत्वमत आह –

यजमानाश्चेति ।

आहुती तच्छब्दवाच्ये प्राधान्यं मयडर्थः ।

तदेव स्पष्टयति –

आहुतिभावनाभाविता इति ।

तत्संस्तुतास्तदनुसारिणस्तदाश्रया इत्यर्थः ।

तद्भावितत्वफलमाह –

आहुतिरूपेणेति ।

तेनाऽऽकृष्टत्वं वशीकृतत्वम् ।

आहुतिभाविता इत्युक्तं स्पष्टयति –

श्रद्धेति ।

तत्पूर्वकं पयःसोमादिसाध्यं यत्कर्म तदाश्रया इत्यर्थः । सोमभूतास्तत्समीपस्थं शरीरं प्राप्य तत्स्वरूपा इत्यर्थः ।

कथं सोमसारूप्यं कर्मिणां फलमित्याशङ्क्याऽऽह –

तदर्थमिति ।

यजमानानां सोमभावो गतिमन्तरेण न सिध्यति । तथा च वक्तव्या गतिरित्याशङ्क्याऽऽह –

अत्रेति ।

आहवनीयोऽग्निः सप्तम्यर्थः ।

सा तर्हि कुत्रोच्यते न हि तदुक्तिमन्तरेण यथोक्तं फलं सिध्यत्यत आह –

तां त्विति ॥२॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य चतुर्थः खण्डः ॥