छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःपञ्चमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
पर्जन्यो वाव गौतमाग्निस्तस्य वायुरेव समिदभ्रं धूमो विद्युदर्चिरशनिरङ्गारा ह्रादनयो विस्फुलिङ्गाः ॥ १ ॥
द्वितीयहोमपर्यायार्थमाह — पर्जन्यो वाव पर्जन्य एव गौतमाग्निः पर्जन्यो नाम वृष्ट्युपकरणाभिमानी देवताविशेषः । तस्य वायुरेव समित् , वायुना हि पर्जन्योऽग्निः समिध्यते ; पुरोवातादिप्राबल्ये वृष्टिदर्शनात् । अभ्रं धूमः, धूमकार्यत्वाद्धूमवच्च लक्ष्यमाणत्वात् । विद्युदर्चिः, प्रकाशसामान्यात् । अशनिः अङ्गाराः, काठिन्याद्विद्युत्सम्बन्धाद्वा । ह्रादनयो विस्फुलिङ्गाः ह्रादनयः गर्जितशब्दाः मेघानाम् , विप्रकीर्णत्वसामान्यात् ॥

द्वितीयहोमसम्बन्धी द्वितीयः पर्यायस्तस्यार्थं निर्ज्ञातुं तमेव पर्यायमादत्ते श्रुतिरित्यर्थः । पुरोवातादीत्यादिशब्देन वर्षहेतुर्वायुभेदो गृह्यते । उक्तं चाभ्राणां धूमकार्यत्वं पौराणिकैः –
“यज्ञधूमोद्भवं त्वभ्रं द्विजानां च हितं सदा । दावाग्निधूमसम्भूतमभ्रं वनहितं स्मृतम् ॥
मृतधूमोद्भवं त्वभ्रमशुभाय भविष्यति । अभिचाराग्निधूमोत्थं भूतनाशाय वै द्विजाः ॥”
इति ॥१॥