उक्तार्थे वाक्यं योजयति –
इति त्विति ।
अपां गर्भीभावोक्तिमात्रेण पुरुषवचस्त्वस्य निर्णीतत्वादलमुत्तरग्रन्थेनेत्याशङ्क्य तस्य तात्पर्यमाह –
यत्त्विति ।
आहुत्योः सम्बन्धीति शेषः । प्रासङ्गिकं गर्भीभावोक्तिप्रसङ्गादागतमिति यावत् । इहेति प्रकृतश्रुत्युक्तिः ।
प्रासङ्गिकीं सङ्गतिं त्यक्त्वा साक्षादेव पूर्वोत्तरग्रन्थयोरस्ति सङ्गतिरिति तात्पर्यान्तरमाह –
इह चेति ।
प्रजानामूर्ध्वगमनमुत्तरत्र निरूपयिष्यते । तादर्थ्येन तासामुत्पत्तिरादावुच्यत इत्यर्थः ।
द्विधा सङ्गतिमुक्त्वा वाक्याक्षराणि योजयति –
स गर्भ इति ।
सोमवृष्ठ्यन्नरेतांस्यपेक्ष्य पञ्चमत्वं गर्भाख्यस्य परिणामस्य द्रष्टव्यम् । अपां प्रकृतत्वद्योतनार्थमाहुतीत्यादिविशेषणद्वयम् । अथवा पूर्वोक्तात्कालान्न्यू[ने]नाधिकेन वा कालेन यावता जन्तुः समग्राङ्गो जायते तावता कालेन कुक्षौ शयित्वेति सम्बन्धः । अनन्तरं योनितो निर्गमनकारणीभूतकर्माभिव्यक्तेरिति शेषः ।