छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःनवमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति स उल्बावृतो गर्भो दश वा नव वा मासानन्तः शयित्वा यावद्वाथ जायते ॥ १ ॥
उल्बावृत इत्यादि वैराग्यहेतोरिदमुच्यते । कष्टं हि मातुः कुक्षौ मूत्रपूरीषवातपित्तश्लेष्मादिपूर्णे तदनुलिप्तस्य गर्भस्योल्बाशुचिपटावृतस्य लोहितसरेतोशुचिबीजस्य मातुरशितपीतरसानुप्रवेशेन विवर्धमानस्य निरुद्धशक्तिबलवीर्यतेजःप्रज्ञाचेष्टस्य शयनम् । ततो योनिद्वारेण पीड्यमानस्य कष्टतरा निःसृतिर्जन्मेति वैराग्यं ग्राहयति, मुहूर्तमप्यसह्यं दश वा नव वा मासानतिदीर्घकालमन्तः शयित्वेति च ॥

उल्बावृतत्वं कुक्षौ चिरं शयनं योनितो निःसरणमित्येतदशेषमतिप्रसिद्धं किमिति श्रुत्या व्यपदिश्यते तत्राऽऽह –

उल्बावृत इत्यादीति ।

वैराग्यार्थत्वमस्य स्पुटयति –

कष्ट हीति ।

श्लेष्मादीत्यादिशब्देनासृक्पूयस्नायुमज्जादीनि गृह्यन्ते । तदनुलिप्तस्येति तच्छब्दो मूत्रपुरीषादिविषयः । शक्तिर्बुद्धिसामर्थ्यम् । बलं देहसामर्थ्यम् । वीर्यमिन्द्रियसामर्थ्यम् । तेजः शरीरगता कान्तिः । प्रज्ञा चेतना जीवधर्मः । चेष्टा प्राणधर्मः । ता निरुद्धा यस्य तस्येति विग्रहः ।

मातुरुदरे शयानस्य कष्टत्वेऽपि तदुदराद्योनिद्वारा निःसरणं सुखकरमिति चेन्नेत्याह –

तत इति ।

तद्ग्राहकत्वप्रकारमेवाभिनयति –

मुहूर्तमपीति ।

यन्मातुरन्तःशयनं मुहूर्तमपि दुःसहं तत्कथं दीर्घकालं शयितुं शक्यम् । कथं च दश वा नव वा मासानन्तः शयित्वा पुनर्योनिद्वारा दुष्करं निःसरणं दुःसह्यं स्यादिति वैराग्यं ग्राहयति –

श्रुतिरित्यर्थः ॥१॥