जातस्य पुनरनर्थो नास्तीत्याशङ्क्याऽऽह –
स एवमिति ।
यावदायुषमित्येतद्व्याचष्टे –
पुनरिति ।
घटीयन्त्रवदूर्ध्वगमनार्थं वा निषिद्धं कर्म पौनःपुन्येनाऽऽचरन्यावत्कर्मणाऽर्जितमायुस्तावदस्मिन्देहे जीवति ततो म्रियते । तथा च जातस्य मृत्युध्रौव्यान्नास्ति सम्यग्ज्ञानं विना स्वस्तिप्राप्तिरित्यर्थः ।
अस्तु तर्हि मृतस्य कृतकृत्यतेत्याशङ्क्याऽऽह –
तमेतमिति ।
सर्वस्य तर्हि मृतस्य परलोकित्वं स्यादिति चेन्नेत्याह –
यदीति ।
तदा परलोकं प्रति कर्मणा निर्दिष्टमिति पूर्वेण सम्बन्धः युक्तं च तन्मृतस्याग्न्यर्थं नयनमित्याह –
यत इति ॥२॥