छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःदशमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
मासेभ्यः संवत्सरꣳ संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवयानः पन्था इति ॥ २ ॥
‘वेत्थ यदितोऽधि प्रजाः प्रयन्ति’ (छा. उ. ५ । ३ । २) इत्ययं प्रश्नः प्रत्युपस्थितोऽपाकर्तव्यतया । तत् तत्र लोकं प्रति उत्थितानाम् अधिकृतानां गृहमेधिनां ये इत्थम् एवं यथोक्तं पञ्चाग्निदर्शनम् — द्युलोकाद्यग्निभ्यो वयं क्रमेण जाता अग्निस्वरूपाः पञ्चाग्न्यात्मानः — इत्येवं विदुः जानीयुः । कथमवगम्यते इत्थं विदुरिति गृहस्था एव उच्यन्ते नान्य इति । गृहस्थानां ये त्वनित्थंविदः केवलेष्टापूर्तदत्तपराः ते धूमादिना चन्द्रं गच्छन्तीति वक्ष्यति । ये च अरण्योपलक्षिता वैखानसाः परिव्राजकाश्च श्रद्धा तप इत्युपासते, तेषां च इत्थंविद्भिः सह अर्चिरादिना गमनं वक्ष्यति, पारिशेष्यादग्निहोत्राहुतिसम्बन्धाच्च गृहस्था एव गृह्यन्ते — इत्थं विदुरिति । ननु ब्रह्मचारिणोऽप्यगृहीता ग्रामश्रुत्या अरण्यश्रुत्या च अनुपलक्षिता विद्यन्ते, कथं पारिशेष्यसिद्धिः ? नैष दोषः । पुराणस्मृतिप्रामाण्यात् ऊर्ध्वरेतसां नैष्ठिकब्रह्मचारिणाम् उत्तरेणार्यम्णः पन्थाः प्रसिद्धः, अतः तेऽप्यरण्यवासिभिः सह गमिष्यन्ति । उपकुर्वाणकास्तु स्वाध्यायग्रहणार्था इति न विशेषनिर्देशार्हाः । ननु ऊर्ध्वरेतस्त्वं चेत् उत्तरमार्गप्रतिपत्तिकारणं पुराणस्मृतिप्रामाण्यादिष्यते, इत्थंवित्त्वमनर्थकं प्राप्तम् । न, गृहस्थान्प्रत्यर्थवत्त्वात् । ये गृहस्था अनित्थंविदः, तेषां स्वभावतो दक्षिणो धूमादिः पन्थाः प्रसिद्धः, तेषां य इत्थं विदुः सगुणं वा अन्यद्ब्रह्म विदुः, ‘अथ यदु चैवास्मिञ्शव्यं कुर्वन्ति यदि च नार्चिषमेव’ (छा. उ. ४ । १५ । ५) इति लिङ्गात् उत्तरेण ते गच्छन्ति । ननु ऊर्ध्वरेतसां गृहस्थानां च समाने आश्रमित्वे ऊर्ध्वरेतसामेव उत्तरेण पथा गमनं न गृहस्थानामिति न युक्तम् अग्निहोत्रादिवैदिककर्मबाहुल्ये च सति ; नैष दोषः, अपूता हि ते — शत्रुमित्रसंयोगनिमित्तौ हि तेषां रागद्वेषौ, तथा धर्माधर्मौ हिंसानुग्रहनिमित्तौ, हिंसानृतमायाब्रह्मचर्यादि च बह्वशुद्धिकारणमपरिहार्यं तेषाम् , अतोऽपूताः । अपूतत्वात् न उत्तरेण पथा गमनम् । हिंसानृतमायाब्रह्मचर्यादिपरिहाराच्च शुद्धात्मानो हि इतरे, शत्रुमित्ररागद्वेषादिपरिहाराच्च विरजसः ; तेषां युक्त उत्तरः पन्थाः । तथा च पौराणिकाः — ‘ये प्रजामीषिरेऽधीरास्ते श्मशानानि भेजिरे । ये प्रजां नेषिरे धीरास्तेऽमृतत्वं हि भेजिरे’ ( ? ) इत्याहुः । इत्थंविदां गृहस्थानामरण्यवासिनां च समानमार्गत्वेऽमृतत्वफले च सति, अरण्यवासिनां विद्यानर्थक्यं प्राप्तम् ; तथा च श्रुतिविरोधः — ‘न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनः’ (शत. ब्रा. १० । ५ । ४ । १६) इति, ‘स एनमविदितो न भुनक्ति’ (बृ. उ. १ । ४ । १५) इति च विरुद्धम् । न, आभूतसम्प्लवस्थानस्यामृतत्वेन विवक्षितत्वात् । तत्रैवोक्तं पौराणिकैः — ‘आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते’ (वि. पु. २ । ८ । ९७) इति । यच्च आत्यन्तिकममृतत्वम् , तदपेक्षया ‘न तत्र दक्षिणा यन्ति’ ‘स एनमविदितो न भुनक्ति’ इत्याद्याः श्रुतयः — इत्यतो न विरोधः । ‘न च पुनरावर्तन्ते’ (छा. उ. ८ । १५ । १) इति ‘इमं मानवमावर्तं नावर्तन्ते’ (छा. उ. ४ । १५ । ५) इत्यादि श्रुतिविरोध इति चेत् , न ; ‘इमं मानवम्’ इति विशेषणात् ‘तेषामिह न पुनरावृत्तिरस्ति’ (बृ. मा. ६ । १ । १८) इति च । यदि हि एकान्तेनैव नावर्तेरन् , इमं मानवम् इह इति च विशेषणमनर्थकं स्यात् । इममिह इत्याकृतिमात्रमुच्यत इति चेत् , न ; अनावृत्तिशब्देनैव नित्यानावृत्त्यर्थस्य प्रतीतत्वात् आकृतिकल्पना अनर्थिका । अतः इममिह इति च विशेषणार्थवत्त्वाय अन्यत्र आवृत्तिः कल्पनीया । न च सदेकमेवाद्वितीयमित्येवं प्रत्ययवतां मूर्धन्यनाड्या अर्चिरादिमार्गेण गमनम् , ‘ब्रह्मैव सन्ब्रह्माप्येति’ (बृ. उ. ४ । ४ । ६) ‘तस्मात्तत्सर्वमभवत्’ (बृ. उ. १ । ४ । ९) ‘न तस्य प्राणा उत्क्रामन्ति । ’ (बृ. उ. ४ । ४ । ६)‘अत्रैव समवलीयन्ते’ (बृ. उ. ३ । २ । ११) इत्यादिश्रुतिशतेभ्यः । ननु तस्माज्जीवादुच्चिक्रमिषोः प्राणा नोत्क्रामन्ति सहैव गच्छन्तीत्ययमर्थः कल्प्यत इति चेत् ; न, ‘अत्रैव समवलीयन्ते’ इति विशेषणानर्थक्यात् , ‘सर्वे प्राणा अनूत्क्रामन्ति’ (बृ. उ. ४ । ४ । २) इति च प्राणैर्गमनस्य प्राप्तत्वात् । तस्मादुत्क्रामन्तीत्यनाशङ्कैवैषा । यदापि मोक्षस्य संसारगतिवैलक्षण्यात्प्राणानां जीवेन सह आगमनमाशङ्क्य तस्मान्नोत्क्रामन्तीत्युच्यते, तदापि ‘अत्रैव समवलीयन्ते’ इति विशेषणमनर्थकं स्यात् । न च प्राणैर्वियुक्तस्य गतिरुपपद्यते जीवत्वं वा, सर्वगतत्वात्सदात्मनो निरवयवत्वात् प्राणसम्बन्धमात्रमेव हि अग्निविस्फुलिङ्गवज्जीवत्वभेदकारणमित्यतः तद्वियोगे जीवत्वं गतिर्वा न शक्या परिकल्पयितुम् , श्रुतयश्चेत्प्रमाणम् । न च सतोऽणुरवयवः स्फुटितो जीवाख्यः सद्रूपं छिद्रीकुर्वन् गच्छतीति शक्यं कल्पयितुम् । तस्मात् ‘तयोर्ध्वमायन्नमृतत्वमेति’ (छा. उ. ८ । ६ । ६) इति सगुणब्रह्मोपासकस्य प्राणैः सह नाड्या गमनम् , सापेक्षमेव च अमृतत्वम् , न साक्षान्मोक्ष इति गम्यते, ‘तदपराजिता पूस्तदैरं मदीयं सरः’ (छा. उ. ८ । ५ । ३) इत्याद्युक्त्वा ‘तेषामेवैष ब्रह्मलोकः’ (छा. उ. ८ । ५ । ४) इति विशेषणात् ॥

स उल्बावृत इत्यादिनोक्तमनुवदति –

वेत्थेति ।

प्रत्युपस्थितः प्रजोत्पत्तिप्रदर्शनेन प्रसङ्गत इति यावत् ।

तद्य इत्थं विदुरित्येतद्व्याचष्टे –

तत्तत्रेत्यादिना ।

सप्तम्यर्थमेव स्फोरयति –

लोकमिति ।

निर्धारणार्था षष्ठी ।

वेदनप्रकारमनुवदति –

द्युलोकादीति ।

तेऽर्चिषमभिसम्भवन्तीत्युत्तरत्र सम्बन्धः ।

साधारणोक्तेर्विशेषे सङ्कोचो हेतुं विना न सिद्ध्यतीति शङ्कते –

कथमिति ।

पारिशेष्यं सङ्कोचमिति परिहरति –

गृहस्थानामिति ।

षष्ठी निर्धारणे । अतश्च केवलकर्मिणो गृहस्था न विदुरिति ग्रहणमर्हन्तीति शेषः ।

परिव्राजका वानप्रस्थाश्च गृह्यन्तामिति चेन्नेत्याह –

ये चेति ।

केषां तर्हीति ग्रहणमत आह –

पारिशेष्यादिति ।

गृहस्थ एव हेत्वन्तरमाह –

अग्निहोत्रेति ।

तदाहुत्यपूर्वपरिणामात्मकं जगदत्र पञ्चधा प्रविभज्याग्नित्वेन दर्शनमुत्तरमार्गप्राप्तिसाधनं चोद्यते । अतो विद्यायास्तत्सम्बन्धाद्गृहस्थानामपि तत्सम्बन्धस्य प्राप्तत्वात्तेषामेवेह ग्रहणमुचितमित्यर्थः ।

पारिशेष्यमाक्षिपति –

नन्विति ।

ग्रामः सपत्नीको वासः । न च ब्रह्मचारिणां पत्नीसम्बन्धः । तन्न ग्रामहुत्या ब्रह्मचारिणो गृहीताः । गुरुकुलवासित्वाच्च नारण्यश्रुत्योपलक्षिताः । ततस्तेषामिह ग्रहणसम्भवान्न पारिशेष्यमित्यर्थः ।

किं नैष्ठिकब्रह्मचारिणोऽत्रेत्थं विदुरिति गृह्येरन्किं वोपकुर्वाणा इति विकल्पाऽऽद्यं दूषयति –

नैष दोष इति ।

“अष्टाशीतिसहस्राणि यतीनामूर्ध्वरेतसाम् । स्मृतं स्थानं तु यत्तेषां तदेव गुरुवासिनाम् ॥” इत्यादिपुराणस्मृतेः श्रुतिमूलत्वेन प्रामाण्यान्नैष्ठिकब्रह्मचारिणामूर्ध्वरेतसामादित्यसम्बन्धेनोत्तरायणेनोपलक्षितो देवयानाख्यो मार्गो यावता प्रसिद्धस्तस्मात्तेषामरण्यवासिभिः सहाखण्डितब्रह्मचर्येणैवार्चिरादिगतिलाभान्न पञ्चाग्निवित्त्वेन प्रयोजनमिति पारिशेष्यसिद्धिरित्यर्थः ।

द्वितीयं प्रत्याह –

उपकुर्वाणकास्त्विति ।

ते हि स्वाध्यायग्रहणार्थास्तस्मिन्गृहीते स्वेच्छावशादाश्रमान्तरं गृह्णन्तस्तत्फलेनैव फलवन्तो भवन्तीति न गृहस्थादिभ्यो विभज्येत्थं विदुरिति निर्देशमर्हन्तीत्यर्थः । किं नैष्ठिकानां ब्रह्मचारिणामुत्तरमार्गप्राप्तिसम्भवादनर्थकमित्थंवित्त्वं प्राप्तमिति श्रुतिविरोधाद्द्वितीये तु पारिशेष्यासिद्धितादवस्थ्यमिति शङ्कार्थः ।

किमित्थंवित्त्वं नैष्ठिकान्प्रत्यनर्थकमित्युच्यते किं वा सर्वानेव प्रतीति विकल्प्याऽऽद्यमङ्गीकृत्य द्वितीयं दूषयति –

न गृहस्थानिति ।

तान्प्रत्यर्थवत्त्वमेवेत्थंवित्त्वस्य विभज्य समर्थयते –

ये गृहस्था इति ।

स्वभावतस्तदनुष्ठितेष्टापूर्तबलादित्यर्थः । तेषामेव गृहस्थानां मध्ये ये केचिदुक्तेन प्रकारेणेत्थं पञ्चाग्निदर्शनं विदुरग्निभ्योऽन्यद्वा सगुणं ब्रह्म विदुस्ते देवयानेनोत्तरेण पथा गच्छन्तीति सम्बन्धः ।

न केवलं गृहस्थानां पञ्चाग्निवित्त्वमेव किन्तु सगुणब्रह्मवित्त्वमपि तेषामस्तीति प्रमाणमाह –

अथेति ।

अन्त्येष्टिकरणाकरणयोरविशेषेण ब्रह्मविदामर्चिरादिगतिश्रवणादस्ति गृहस्थानामपि ब्रह्मवित्त्वमिति गम्यते । परिव्राजकादिष्वन्त्येष्ट्यसम्भवेन विद्यास्तुतेरपि दुर्वचनत्वादित्यर्थः ।

विहितत्वाविशेषादाश्रमाणां तुल्यत्वमाश्रित्य शङ्कते –

नन्विति ।

साम्यमुक्त्वा गृहस्थेषु विशेषं दर्शयति –

अग्निहोत्रादीति ।

वैदिकानि कर्माणि भूयांसि सन्ति । तेषां च बाहुल्ये सत्यविदुषामूर्ध्वरेतसामेव देवयानेन पथा गमनं न गृहस्थानामित्ययुक्तं साधनभूयस्त्वे फलभूयस्त्वन्यायविरोधादित्यर्थः ।

आश्रमित्वाविशेषेऽपि धर्मविशेषाद्विशुद्धितारतम्यसम्भवान्नैकरूप्यमिति परिहरति –

नैष दोष इति ।

कथं गृहस्थानामग्निहोत्रादिभूयोधर्मवतां विद्याहीनानामप्यपूतत्वं तत्राऽऽह –

शतृमित्रेति ।

अब्रह्मचर्यादीत्यादिपदेन परिग्रहित्वादि गृह्यते | अशुद्धिबाहुल्यकारणमतःशब्दार्थः ।

तुल्यमूर्ध्वरेतसामप्यशुद्धिहेतुबाहुल्यादपूतत्वमित्याशङ्क्याऽऽह –

हिंसेति ।

ऊर्ध्वरेतसां पूतत्वे सिद्धे फलितमाह –

तेषामिति ।

ऊर्ध्वरेतसां देवयाने पथ्यनुप्रवेशे प्रमाणमाह –

तथाचेति ।

पौराणिका आहुरिति सम्बन्धः ।

आश्रमधर्ममात्रमार्गद्वारेणामृतत्वमूर्ध्वरेतसामुक्तमाक्षिपति –

इत्थंविदामिति ।

तेषां विद्यानर्थक्यमिष्टमेवेत्याशङ्क्याऽह –

तथा चेति ।

स परमात्मा स्वयमज्ञातः सन्नेनमधिकारिणमपवर्गप्रदानेन न पालयतीति च वाक्यं विद्यामन्तरेणामृतत्वं ब्रुवतो विरुद्धमित्यर्थः ।

ऊर्ध्वरेतसाममृतत्वस्याऽऽपेक्षिकत्वात्तत्र विद्यानर्थक्यमेवेति परिहरति –

नाऽऽभूतेति ।

आपेक्षिकममृतत्वमित्यत्र प्रमाणमाह –

तत्रैवेति ।

यत्र प्रजाः कामयमाना मुक्तिभाजो न भवन्तीत्युक्तं तत्रैव तत्सन्निधाविति यावत् ।

कथं तर्हि यथोक्तश्रुतिविरोधसमाधिरित्याशङ्क्याऽऽह –

यच्चेति ।

आदिशब्दस्तमेवं विद्वानमृत इह भवतीत्यादिश्रुतिसंग्रहार्थः ।

आपेक्षिकामृतत्वे श्रुतिविरोधो न शक्यते परिहर्तुमिति शङ्कते –

न चेति ।

आदिशब्दस्तेषामिह न पुनरावृत्तिरित्यादिवाक्यसंग्रहार्थः ।

इममिहेति विशेषणावष्टम्भेन निराचष्टे –

नेत्यादिना ।

तदेव व्यतिरेकमुखेन विशदयति –

यदीति ।

सर्वकल्पेषु श्रुतेरेतादृशत्वादिममिहेतिपदद्वयसामान्येन सर्वकल्पविषये विशेषणानर्थक्यं दुर्वारमित्युत्तरमाह –

नानावृत्तीति ।

विधान्तरेण विशेषणार्थसम्भवे फलितमाह –

अत इति ।

यस्मिन्कल्पे ब्रह्मलोकप्राप्तिस्तस्मात्कल्पान्तरमन्यत्रेत्युक्तम् ।

ऊर्ध्वरेतसामाश्रमधर्ममात्रनिष्ठानाममृतत्वमापेक्षिकमुपक्षिप्तम् । संप्रति तेषामेव साक्षात्कृतब्रह्मतत्त्वानामात्यन्तिकममृतत्वं गतिनिरपेक्षं सिद्ध्यतीत्याह –

न चेति ।

तेषां गत्यादिनिरपेक्षमात्यन्तिकममृतत्वं भवतीत्यत्र प्रमाणमाह –

ब्रह्मैवेति ।

न तस्मात्प्राणा उत्क्रामन्तीति माध्यन्दिनश्रुतिमनुसृत्य न तस्येत्यादिकाण्वश्रुतिरपि नेतव्येति शङ्कते –

ननु तस्मादिति ।

वाक्यशेषविरोधान्नैवमिति दूषयति –

नात्रेति ।

श्रुत्यन्तरालोचनायामपि न स्वयूथ्यकल्पनेत्याह –

सर्वे प्राणा इति ।

प्राणैः सह जीवस्येति शेषः ।

संसारदशायां प्राणैः सह विज्ञानात्मनो गमनेऽपि मोक्षे नास्ति प्राणानां जीवेन सह गमनमित्याशङ्कायां न तस्मादित्यादिवाक्यमित्याशङ्क्याऽऽह –

यदाऽपीति ।

भवतु प्राणानामत्रैव समवलयस्तथाऽपि जीवस्य गमनायत्तममृतत्वमित्याशङ्क्याऽऽह –

न चेति ।

“कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि । कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति । स प्राणमसृजत” (प्र.उ. ६ । ३) इति श्रुतेरिति शेषः ।

किञ्च प्राणैर्वियुक्तस्य चिदात्मनो जीवत्वं नोपपद्यते प्राणोपाधिकस्यैव तस्य जीवशब्दवाच्यत्वादित्याह –

जीवत्वं चेति ।

उक्तमर्थं समर्थयते –

सर्वगतत्वादिति ।

चिदात्मा हि कल्पनायामधिष्ठाने सति यतो निर्भागं सर्वस्याऽऽत्मा तस्मादग्नेर्विस्फुलिङ्गवज्जीवत्वाख्यभेदसम्पादनं तस्य प्राणसम्बन्धमात्रमेवेति वैदिकानां प्रसिद्धम् । तथा च प्राणवियोगे चिदात्मनो जीवत्वं गतिर्वा न शक्यते कल्पयितुम् । तस्मात्पूर्णत्वादिप्रतिपादकश्रुतीनां प्रमाणत्वादित्यर्थः ।

सदात्मनः सर्वगतस्य जीवाख्यभेदकरणं न प्राणोपाधिकृतं किं तु स्वत एव तस्यांशो जीवस्तथा चाग्निविस्फुलिङ्गवत्तस्य गत्युपपत्तिरित्याशङ्क्याऽऽह –

न चेति ।

“निष्कलं निष्क्रियं शान्तम्” (श्वे.उ. ६ । १९) इत्यादिश्रुतेरिति शेषः ।

प्रकरणार्थमुपसंहरति –

तस्मादिति ।

निर्गुणब्रह्मविदामात्यन्तिकामृतत्वस्य गमनादिनिरपेक्षत्वादिति यावत् ।

सगुणब्रह्मोपासकस्य सापेक्षममृतत्वमित्यत्र विशेषणश्रुतिमनुकूलयति –

तदपराजितेति ।

आदिपदेन तदश्वत्थः सोमसवन इत्यादि गृह्यते । तेषामेव ब्रह्मविदामेष पूर्वोक्तविशेषगुणो ब्रह्मणः सत्याख्यस्य लोको नान्येषामकृतात्मनामिति विशेषदर्शनादमृतत्वं तेषां तल्लोकनिवासिभिः समं सापेक्षमेवेति निर्धारितमित्यर्थः ।