छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःदशमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
मासेभ्यः संवत्सरꣳ संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवयानः पन्था इति ॥ २ ॥
अतः पञ्चाग्निविदो गृहस्थाः, ये च इमे अरण्ये वानप्रस्थाः परिव्राजकाश्च सह नैष्ठिकब्रह्मचारिभिः श्रद्धा तप इत्येवमाद्युपासते श्रद्धधानास्तपस्विनश्चेत्यर्थः ; उपासनशब्दस्तात्पर्यार्थः ; इष्टापूर्ते दत्तमित्युपासत इति यद्वत् । श्रुत्यन्तरात् ये च सत्यं ब्रह्म हिरण्यगर्भाख्यमुपासते, ते सर्वे अर्चिषम् अर्चिरभिमानिनीं देवताम् अभिसम्भवन्ति प्रतिपद्यन्ते । समानमन्यत् चतुर्थगतिव्याख्यानेन । एष देवयानः पन्था व्याख्यातः सत्यलोकावसानः, न अण्डाद्बहिः, ‘यदन्तरापितरं मातरं च’ (ऋ. १० । ८८ । १५) इति मन्त्रवर्णात् ॥

ऊर्ध्वरेतसामाश्रममात्रनिष्ठानामपि ब्रह्मलोको लभ्यते गृहस्थानां पुनर्विदुषामेवेत्युपपाद्य प्रकृतश्रुतिव्याख्यानमनुवर्तयति –

अत इति ।

पूर्वोक्तपारिशेष्यादिवशादिति यावत् । परिव्राजकाश्चेत्यमुख्यसंन्यासिनस्त्रिदण्डिनो गृह्यन्ते मुख्यसंन्यासिनां ब्रह्मसंस्थोऽमृतत्वमेतीति पृथक्कृतत्वात् । श्रद्धां सत्यमित्युपासत इति श्रुत्यन्तरम् । पञ्चाग्निविदो गृहस्थाः स्वाश्रममात्रप्रवणा ऊर्ध्वरेतसः सत्यब्रह्मोपासकाश्चोभये सर्वशब्देनोच्यन्ते ।

चतुर्थे यदुपकोसलविद्यायां गतिव्याख्यानमतिवृत्तं तेन समानमर्चिषोऽहरित्यादिवाक्यव्याख्यानं तथा च तन्न पृथक्कर्तव्यमित्याह –

समानमिति ।

उत्तरमार्गव्याख्यानमुपसंहरति –

एष इति ।

देवयानेन पथा बहिरण्डाद्वयवस्थितं ब्रह्म गन्तव्यमित्येके तान्प्रत्याह –

नाण्डादिति ।

तत्र हेतुमाह –

यदन्तरेति ।

पितरं द्युलोकं मातरं च पृथिवीं मध्ये ये द्वे सृती अशृणवं ताभ्यामिदं विश्वं कर्मज्ञानाधिकृतं गच्छति न चाण्डाद्बहिरस्ति गतिद्वयमित्यर्थः ॥१-२॥