अन्नशब्दस्य यथाश्रुतमर्थं गृहीत्वा चोदयति –
नन्विति ।
औपचारिकमर्थं गृहीत्वा परिहरति –
नैष दोष इति ।
वृद्धप्रयोगमन्तरेण कथमुपकरणविषयोऽन्नशब्दो व्याख्यायते तत्राऽऽह –
दृष्टश्चेति ।
भवतु कर्मिणां देवान्प्रत्युपकरणत्वं तथाऽपि स्वयमुपभोगाभावादनर्थकमिष्टादिकरणमित्याशङ्क्याऽऽह –
न चेति ।
अन्योपभोग्यानामपि स्वयं भोगसत्त्वं तस्मादित्युच्यते । तथाऽपि तेषां मृतानामशरीरिणां कथं मुख्योपभोगः सम्भवतीत्याशङ्क्याऽऽह –
शरीरं चेति ।
कथमपां चन्द्रलोके तद्देहारम्भकत्वं तदाह –
यदुक्तमिति ।
अथापां सोमत्वमेवात्र प्रतीयते नतु कर्मिदेहारम्भकत्वमित्याशङ्क्याऽऽह –
ता आप इति ।
कर्मसमवायिनीनामपां कर्मापूर्वद्वारा यजमानदेहप्रतिष्ठानां कथं द्युलोकप्रवेशादि सम्भवतीत्याशङ्क्याऽऽह –
अन्त्यायां चेति ।
अद्भिरारब्धस्य शरीरस्य भोगायतनत्वं दर्शयति –
तदारब्धेनेति ॥४॥