छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःदशमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तस्मिन्यावत्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवति ॥ ५ ॥
कोऽसावध्वा यं प्रति निवर्तन्त इति, उच्यते — यथेतं यथागतं निवर्तन्ते । ननु मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमिति गमनक्रम उक्तः, न तथा निवृत्तिः ; किं तर्हि, आकाशाद्वायुमित्यादि ; कथं यथेतमित्युच्यते । नैष दोषः, आकाशप्राप्तेस्तुल्यत्वात्पृथिवीप्राप्तेश्च । न च अत्र यथेतमेवेति नियमः, अनेवंविधमपि निवर्तन्ते ; पुनर्निवर्तन्त इति तु नियमः । अत उपलक्षणार्थमेतत् — यद्यथे तमिति । अतो भौतिकमाकाशं तावत्प्रतिपद्यन्ते — यास्तेषां चन्द्रमण्डले शरीरारम्भिका आप आसन् , तास्तेषां तत्रोपभोगनिमित्तानां कर्मणां क्षये विलीयन्ते — घृतसंस्थानमिवाग्निसंयोगे, ता विलीना अन्तरिक्षस्था आकाशभूता इति सूक्ष्माः भवन्ति । ता अन्तरिक्षाद्वायुर्भवन्ति, वायुप्रतिष्टा वायुभूता इतश्चामुतश्च ऊह्यमानाः ताभिः सह क्षीणकर्मा वायुभूतो भवति । वायुर्भूत्वा ताभिः सहैव धूमो भवति । धूमो भूत्वा अभ्रम् अब्भरणमात्ररूपो भवति ॥

उपभुक्तात्कर्मणः शेषेणेति सम्बन्धः –

कश्चिदिति ।

श्रौतौ वा स्मार्तो वा यौक्तिको वा लौकिको वेत्यर्थः ।

एतमेवाध्वानमिति प्रकृतमध्वानं प्रश्नपूर्वकं विशदयति –

कोऽसावित्यादिना ।

यथेतमित्युक्तमाक्षिपति –

नन्विति ।

किं यथेतमित्येतदेव न सम्भवति किं वा यथेतमेवेति नियमो नोपपद्यते तत्राऽऽद्यं दूषयति –

नैष दोष इति ।

द्वितीयं प्रत्याह –

न चेति ।

अत्रेति निवृत्तिरुक्ता ।

अनेवंविधमपीति ।

यथा गतिक्रमो दर्शितो न तथा निवृत्तिर्नियता किं तु विधान्तरेणापि सम्भवतीत्यर्थः ।

निवृत्तेः क्रमनियमाभावे कीदृशो नियमो विवक्षित इत्याशङ्क्याऽऽह –

पुनरिति ।

केनाभिप्रायेण तर्हि यथेतमित्युक्तमत आह –

अत इति ।

गतिक्रमवन्निवृत्तिक्रमे नियमाभावोऽतःशब्दार्थः । उक्तं च “यथेतमनेवं च” इति ।

निवृत्तिनियमे फलितमाह –

अत इति ।

परमात्मानं व्यावर्तयितुं भौतिकमित्युक्तम् ।

कथं पूर्वसिद्धाकाशतादात्म्यापत्तिरवरोहतां सिध्यतीत्याशङ्क्य तत्साम्यगमनमेव तद्भावापत्तिरित्युपचर्यते स्वाभाव्यापत्तिरिति न्यायादित्याह –

यास्तेषामिति ।

घृतस्य संस्थानं काठिन्यम् । तास्वाकाशभूतासु तत्परिवेष्टिताः कर्मिणोऽध्यवरोहन्तस्तद्भूता इव भवन्तीत्यर्थः ।

आकाशाद्वायुमित्यस्यार्थं साधयति –

ता अन्तरिक्षादिति ॥५॥