छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःदशमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्तेऽतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति ॥ ६ ॥
ये त्वन्ये अनुशयिभ्यश्चन्द्रमण्डलमनारुह्य इहैव पापकर्मभिर्घोरैर्व्रीहियवादिभावं प्रतिपद्यन्ते, पुनर्मनुष्यादिभावम् , तेषां नानुशयिनामिव दुर्निष्प्रपतरम् । कस्मात् ? कर्मणा हि तैर्व्रीहियवादिदेह उपात्त इति तदुपभोगनिमित्तक्षये व्रीह्यादिस्तम्बदेहविनाशे यथाकर्मार्जितं देहान्तरं नवं नवं जलूकावत्सङ्क्रमन्ते सविज्ञाना एव ‘सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति’ (बृ. उ. ४ । ४ । २) इति श्रुत्यन्तरात् । यद्यप्युपसंहृतकरणाः सन्तो देहान्तरं गच्छन्ति, तथापि स्वप्नवत् देहान्तरप्राप्तिनिमित्तकर्मोद्भावितवासनाज्ञानेन सविज्ञाना एव देहान्तरं गच्छन्ति, श्रुतिप्रामाण्यात् । तथा अर्चिरादिना धूमादिना च गमनं स्वप्नं इवोद्भूतविज्ञानेन, लब्धवृत्तिकर्मनिमित्तत्वाद्गमनस्य । न तथा अनुशयिनां व्रीह्यादिभावेन जातानां सविज्ञानमेव रेतःसिग्योषिद्देहसम्बन्ध उपपद्यते, न हि व्रीह्यादिलवनकण्डनपेषणादौ च सविज्ञानानां स्थितिरस्ति । ननु चन्द्रमण्डलादप्यवरोहतां देहान्तरगमनस्य तुल्यत्वात् जलूकावत्सविज्ञानतैव युक्ता, तथा सति घोरो नरकानुभव इष्टापूर्तादिकारिणां चन्द्रमण्डलादारभ्य प्राप्तो यावद्ब्राह्मणादिजन्म ; तथा च सति, अनर्थायैव इष्टापूर्ताद्युपासनं विहितं स्यात् ; श्रुतेश्च अप्रामाण्यं प्राप्तम् , वैदिकानां कर्मणाम् अनर्थानुबन्धित्वात् । न, वृक्षारोहणपतनवद्विशेषसम्भवात् — देहाद्देहान्तरं प्रतिपित्सोः कर्मणो लब्धवृत्तित्वात् कर्मणोद्भावितेन विज्ञानेन सविज्ञानत्वं युक्तम् — वृक्षाग्रमारोहत इव फलं जिघृक्षोः । तथा अर्चिरादिना गच्छतां सविज्ञानत्वं भवेत् ; धूमादिना च चन्द्रमण्डलमारुरुक्षताम् । न तथा चन्द्रमण्डलादवरुरुक्षतां वृक्षाग्रादिव पततां सचेतनत्वम् — यथा च मुद्गराद्यभिहतानां तदभिघातवेदनानिमित्तसंमूर्छितप्रतिबद्धकरणानां स्वदेहेनैव देशाद्देशान्तरं नीयमानानां विज्ञानशून्यता दृष्टा, तथा चन्द्रमण्डलात् मानुषादिदेहान्तरं प्रति अवरुरुक्षतां स्वर्गभोगनिमित्तकर्मक्षयात् मृदिताब्देहानां प्रतिबद्धकरणानाम् । अतः ते अपरित्यक्तदेहबीजभूताभिरद्भिः मूर्छिता इव आकाशादिक्रमेण इमामवरुह्य कर्मनिमित्तजातिस्थावरदेहैः संश्लिष्यन्ते प्रतिबद्धकरणतया अनुद्भूतविज्ञाना एव । तथा लवनकण्डनपेषणसंस्कारभक्षणरसादिपरिणामरेतःसेककालेषु मूर्छितवदेव, देहान्तरारम्भकस्य कर्मणोऽलब्धवृत्तित्वात् । देहबीजभूताप्सम्बन्धापरित्यागेनैव सर्वास्ववस्थासु वर्तन्त इति जलूकावत् चेतनावत्त्वं न विरुध्यते । अन्तराले त्वविज्ञानं मूर्छितवदेवेत्यदोषः । न च वैदिकानां कर्मणां हिंसायुक्तत्वेनोभयहेतुत्वं शक्यमनुमातुम् , हिंसायाः शास्त्रचोदितत्वात् । ‘अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः’ (छा. उ. ८ । १५ । १) इति श्रुतेः शास्त्रचोदिताया हिंसाया न अधर्महेतुत्वमभ्युपगम्यते । अभ्युपगतेऽप्यधर्महेतुत्वे मन्त्रैर्विषादिवत् तदपनयोपपत्तेः न दुःखकार्यारम्भणोपपत्तिः वैदिकानां कर्मणाम् — मन्त्रेणेव विषभक्षणस्येति ॥

चन्द्रस्थलस्खलितानामवरोहतां व्रीह्यादिदेहसंश्लिष्टानां द्राघीयसा कालेन देहान्तरलाभश्चेत्तर्हि व्रीह्यादिदेहाभिमानिनामपि दुःशकं निष्क्रमणं व्रीह्यादिदेहसम्बन्धाविशेषादित्यत आह –

ये त्विति ।

व्रीह्यादिदेहसम्बन्धाविशेषे कुतस्तद्देहभाजां ततो निःसरणमशक्यं न भवतीत्याशङ्क्य विशेषमाह –

कस्मादित्यादिना ।

“शरीरजैः कर्मदोषैर्याति स्थावरतां नरः” (म.स्मृ. १२ । ९) इत्यादिश्रुतिस्मृत्योर्येषां कर्मनिमित्तं स्थावरं जन्म तेषां कर्मक्षयः एवावधिः । अवरोहतां तु कर्मासङ्कीर्तनाद्वैषम्यमित्यर्थः ।

यथा जलूका तृणात्तृणान्तरं दीर्घभूता संक्रमते न तथाऽनुशयिनो व्रीह्यादिदेहभाजोऽपि तत्त्यागेन देहान्तरं गच्छन्ति । तद्विषयविज्ञानवन्त एव गच्छन्तीत्यत्र बृहदारण्यकश्रुतिं प्रमाणयति –

सविज्ञान इति ।

अथोपसंहृतकरणानां विज्ञाने कारणासम्भवात्कथं सविज्ञानत्वं तत्राऽऽह –

यद्यपीति ।

दृष्टकारणभावेऽप्यदृष्टमेवैकं वासनात्मकं ज्ञानोत्पत्तौ निमित्तमिति तेन सविज्ञाना एव गच्छन्ति देहान्तरमित्यत्र हेतुमाह –

श्रुतिप्रामाण्यादिति ।

श्रुतिरत्र बृहदारण्यकश्रुतिः । यथा सविज्ञानानामेव व्रीह्यादिदेहान्तरगमनं तथा ज्ञानिनामर्चिरादिना कर्मिणां धूमादिना च गमनं स्वप्नवदुद्भूतवासनात्मकविज्ञानेन सविज्ञानानामेवेत्याह तथेति ।

तेषां सविज्ञानत्वे हेतुमाह –

लब्धवृत्तीति ।

अनुशयिनामपि तर्हि व्रीह्यादिषु संश्लिष्टानां रेतःसिगादिदेहसम्बन्धः सविज्ञानानामेवेति चेन्नेत्याह –

न तथेति ।

अनुपपत्तौ हेतुमाह –

न हीति ।

व्रीह्यादिसंश्लिष्टानामनुशयिनां सविज्ञानत्वे तल्लवनादौ तज्जीववत्तेषामपि प्रवासप्रसङ्गान्न रेतःसिग्देहसम्बन्धः सिद्ध्येदित्यर्थः ।

व्रीह्यादिषु देहान्तरं गच्छत्सु सविज्ञानत्वोपलम्भादनुशयिष्वपि देहान्तरप्राप्तेरविशेषाद्युक्तं सविज्ञानत्वमिति शङ्कते –

नन्विति ।

तृणात्तृणान्तरं प्रति जलूकागमनवदवरोहतामपि देहाद्देहान्तरं प्रति गमनस्य तुल्यत्वाद्व्रीह्यादिवद्युक्ता सविज्ञानतेति योजना ।

अस्तु तेषां सविज्ञानत्वं का हानिरित्यत आह –

तथा सतीति ।

इष्टापूर्तादिकारिणामन्तराले नरकानुभवे ।

तथा च सति तदनुष्ठानस्यानर्थार्थं विहितत्वे श्रेयःसाधनविषयककर्मकाण्डं विरुध्येतेत्याह –

श्रुतेश्चेति ।

यथा बुद्धिपूर्वं वृक्षमारोहतां सविज्ञानत्वेऽपि तस्मादबुद्धिपूर्वं पततां न सविज्ञानत्वं विज्ञायते तथा चन्द्रमण्डलमारोहतां सविज्ञानत्वेऽपि ततोऽवरोहतां नैव तदस्ति उद्भूतकर्माभावात् इत्यारोहावरोहयोर्ज्ञाने विशेषसम्भवान्मैवमिति परिहरति –

न वृक्षेति ।

संग्रहवाक्यं विवृणोति –

देहादित्यादिना ।

चकाराद्गच्छतां सविज्ञानत्वं भवेदिति सम्बन्धः ।

अवरोहतां जीवानां सर्वथा विज्ञानशून्यत्वमयुक्तं चैतन्यस्वाभाव्याद्वृक्षात्पततामपि विज्ञानमात्रमस्त्येवेत्याशङ्क्योदाहरणान्तरमाह –

यथा चेति ।

तेन मुद्गरादिना योऽभिघातस्तेन हेतुना यद्वेदनाख्यं निमित्तं तेन संमूर्छितानि संहृतानि प्रतिबद्धानि वा करणानि येषां तेषामिति यावत् । मृदितो विनष्टो देहोऽम्मयः स्थूलो देहो येषां तेषां तत एव प्रतिबद्धकरणानां विज्ञानशून्यतेति सम्बन्धः ।

यथोक्तदृष्टान्तवशाच्चन्द्रमण्डलादवरोहन्तो विज्ञानशून्याः सिद्ध्यन्तीति निगमयति –

अत इति ।

तथाऽपि मूर्छितानां स्थूलदहसद्भावाद्देशान्तरगमनं युक्तम् । अवरोहतां तु तदभावे कथं व्रीह्यादिभावः सम्भवतीत्यत आह –

अपरित्यक्तेति ।

न परित्यक्तं देहभावस्य बीजं कर्मापूर्वं याभिस्ताभिरद्भिरुपहिता जीवा मूर्छितवद्विज्ञानशून्या गमनादिक्रमेण पृथिवीं प्राप्य कर्मफलभूतजातिस्थावरशरीरैः संश्लिष्यन्त इति सम्बन्धः ।

स्थावरदेहसम्बन्धित्वात्तद्गतजीववत्तदा सविज्ञानत्वं सम्भवतीत्याशङ्क्याऽऽह –

प्रतिबद्धेति ।

व्रीह्यादिसंश्लेषावस्थायामनुशयिनां कर्मणोऽनुद्भूतवृत्तित्वात्करणानां तत्र वृत्तिलाभाभावादनुद्भूतविज्ञानत्वं युक्तमित्यर्थः ।

न केवलं व्रीह्यादिसंश्लेषकालेऽनुद्भूतविज्ञानत्वं किन्तु व्रीह्यादेर्लवनादिकालेऽपीत्याह –

तथेति ।

पाकः संस्कारः । रसादीत्यादिशब्देन शोणितमांसमेदोऽस्थिमज्जारेतांस्युच्यन्ते ।

तस्मिन्काले मूर्छितवदनुद्भूतविज्ञानत्वं देहाद्बर्हिर्निर्गतानां प्राग्देहान्तरप्राप्तेस्तदस्त्येवेति हेतुमाह –

देहेति ।

अलब्धवृत्तित्वादिति च्छेदः ।

कथं पुनरनुशयिनां विज्ञानशून्यत्वे “तद्यथा तृणजलायुक्ता तृणस्यान्तं गत्वाऽन्यमाक्रममाक्रम्याऽऽत्मानमुपसंहरति” इत्यादौ सचेतना जलूका दृष्टान्तत्वेनोपादीयते तत्राऽऽह –

देहबीजभूतेति ।

सर्वास्ववस्थासु तासु व्रीह्यादिसंश्लेषतल्लवनादिवशादिति यावत् । न चेतनावत्त्वं जलूकादृष्टान्ते विवक्षितं किन्तु सातत्यमात्रमिति भावः । जलूकावत्त्वं जलूकासादृश्यमनुशयिनामित्यर्थः ।

आरोहतां सविज्ञानत्वमवरोहतां विज्ञानराहित्यमित्युपपाद्याऽऽरोहतामपि यावत्स्वस्थानेभ्यः करणान्युपसंहृत्य हृदयेऽवस्थानं तावदेव सविज्ञानत्वं न देहाद्बहिर्निर्गतानां प्राग्देहान्तरप्राप्तेस्तदस्त्यनुशयिनां तु चन्द्रमण्डलादवरुरुक्षतामपि न भाविदेहपर्यन्ता वासना दीर्घा भवति प्रमाणाभावादित्याह –

अन्तराले त्विति ।

चन्द्रमण्दलादवरोहतां देहान्तरगमनस्य तुल्यत्वेऽपि विज्ञानशून्यत्वमदुष्टमित्युपसंहरति –

इतदोष इति ।

यत्तु हिंसानुग्रहात्मकत्वाद्वैदिककर्मणां स्थावरत्वमपि तत्फलमेव तथा च वैदिकानां कर्मणामनर्थानुबन्धित्वादप्रामाण्यं श्रुतेरिति तत्राऽऽह –

न चेति ।

उभयहेतुत्वमर्थानर्थहेतुत्वमिति यावत् ।

अहिंसन्नित्यादिश्रुतेः शास्त्रचोदितवैदिकेषु कर्मसु हिंसा नानर्थहेतुरित्याह –

अभ्युपगतेऽपीति ।

यद्यपि स्वरूपेण हिंसाऽनर्थहेतुरभ्युपगम्यते तथाऽपि तद्युक्तानां वैदिककर्मणां नानर्थारम्भकत्वं यथा स्वरूपेण विषद्ध्यादेर्मरणज्वरादिहेतुत्वेऽपि मन्त्रशर्करादिभिः सहोपयुक्तं सन्न तत्कार्यारम्भकम् तथा हिंसायाः स्वतोऽधर्महेतुत्वेऽपि वैदिककर्मनिष्ठाया न तद्धेतुत्वं वैदिकैरेव कर्मभिस्तत्कृतदोषापनयनसिद्धेरित्यर्थः ।

पूर्वोक्तमेव दृष्टान्तं स्पष्टयति –

मन्त्रणेति ।

तेन सहोपभुक्तस्य विषस्यानर्था हेतुत्वेन पुष्टिहेतुत्ववद्वैककर्मानुप्रविष्टाया हिंसायाः पुरुषार्थत्वमेव । अशुद्धामिति चेन्न शब्दादिति न्यायादित्यर्थः ॥६॥