छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःदशमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स्तेनो हिरण्यस्य सुरां पिबꣳश्च गुरोस्तल्पमावसन्ब्रह्महा चैते पतन्ति चत्वारः पञ्चमश्चाचरꣳस्तैरिति ॥ ९ ॥
स्तेनो हिरण्यस्य ब्राह्मणसुवर्णस्य हर्ता, सुरां पिबन् , ब्राह्मणः सन् , गुरोश्च तल्पं दारानावसन् , ब्रह्महा ब्राह्मणस्य हन्ता चेत्येते पतन्ति चत्वारः । पञ्चमश्च तैः सह आचरन्निति ॥

इदानीं तृतीयस्थानमुपदिशति –

यदा त्विति ।

पौनःपुन्ये लोण्मध्मैकवचनात्तयोः सर्वाख्यातेषु विधानात्पुनः पुनर्जायन्ते म्रियन्ते चेत्यस्मिन्नर्थे जायस्व म्रियस्वेति प्रयोग इत्याह –

तेषामिति ।

यद्वा सर्वेश्वरो मार्गद्वयभ्रष्टं दृष्ट्वा तं जायस्व म्रियस्वेति प्रेरयत्येतदिहोच्यत इति द्रष्टव्यम् ।

तेनासावित्यादिवाक्यं व्याचष्टे –

येनैवमिति ।

उक्तया रीत्या निर्णीतान्प्रश्नान्विविच्य प्रतिपत्तिसौकर्यार्थं कथयति –

पञ्चमस्त्विति ।

व्यावर्तनाऽपि व्याख्यातेत्युत्तरत्र सम्बन्धः । मृतानामविदुषां विदुषां चेत्यर्थः । अन्त्येष्ट्यनन्तरं विदुषां कर्मिणां च संवत्सरमिति ज्ञानिनो गृह्यन्ते । अन्ये पितृलोकमिति केवलकर्मिण इति विभागः । क्षीणानुशयानां चन्द्रलोके भोक्तव्यं कर्म भोगेन क्षपितवतामिति यावत् ।

स्वशब्दमेवानुवदति –

तेनेति ।

किमर्थमेषां महायासवती तीव्रा संसारगतिरुक्तेत्याशङ्क्याऽऽह –

यस्मादिति ।

तृतीयस्थानस्य कष्टत्वं स्पष्टयति –

यस्माच्चेति ।

जन्मादिना जनिता या वेदना तदनुभवे कृतः क्षणोऽवसरो नान्यत्र येषां तथा । अप्लव इति च्छेदः ।

तृतीयस्थानवदितरयोरावृत्तिमत्त्वात्तुल्या कष्टतेत्यभिप्रेत्याऽऽह –

तस्माच्चेति ।

संसारगत्युपवर्णनस्य तात्पर्यमुक्त्वा पञ्चाग्निविद्यायामनुष्ठानसिद्ध्यर्थं तस्याः स्तावकं श्लोकमुदाहृत्य व्याचष्टे –

तदेतस्मिन्नित्यादिता ।

पञ्चाग्निविद्यामाहात्म्यं सप्तम्यर्थः ॥८-९ ॥