छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःएकादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
दक्षिणेन पथा गच्छतामन्नभाव उक्तः — ‘तद्देवानामन्नम् तं देवा भक्षयन्ति’ (छा. उ. ५ । १० । ४) इति ; क्षुद्रजन्तुलक्षणा च कष्टा संसारगतिरुक्ता । तदुभयदोषपरिजिहीर्षया वैश्वानरात्तृभावप्रतिपत्त्यर्थमुत्तरो ग्रन्थ आरभ्यते, ‘अत्स्यन्नं पश्यसि प्रियम्’ (छा. उ. ५ । १२ । २) इत्यादिलिङ्गात् । आख्यायिका तु सुखावबोधार्था विद्यासम्प्रदानन्यायप्रदर्शनार्था च —

उत्तरग्रन्थस्य वैश्वानराख्यात्तृभावप्रतिपत्त्यर्थत्वे गमकमाह –

अत्सीति ।

विद्यायाः सम्प्रदानं शिष्यस्तस्य न्यायो विनयादिसंपत्तिस्तत्प्रदर्शनार्था चाऽऽख्यायिका ।

दृश्यते चात्र प्राचीनशालप्रभृतीनां तत्संपत्तिरित्याह –

विद्येति ।