छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःएकादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तान्होवाच प्रातर्वः प्रतिवक्तास्मीति ते ह समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे तान्हानुपनीयैवैतदुवाच ॥ ७ ॥
इत्युक्तः तान् ह उवाच । प्रातः वः युष्मभ्यं प्रतिवक्तास्मि प्रतिवाक्यं दातास्मीत्युक्ताः ते ह राज्ञोऽभिप्रायज्ञाः समित्पाणयः समिद्भारहस्ताः अपरेद्युः पूर्वाह्णे राजानं प्रतिचक्रमिरे गतवन्तः । यत एवं महाशालाः महाश्रोत्रियाः ब्राह्मणाः सन्तः महाशालत्वाद्यभिमानं हित्वा समिद्भारहस्ताः जातितो हीनं राजानं विद्यार्थिनः विनयेनोपजग्मुः । तथा अन्यैर्विद्योपादित्सुभिर्भवितव्यम् । तेभ्यश्च अदाद्विद्याम् अनुपनीयैव उपनयनमकृत्वैव तान् । यथा योग्येभ्यो विद्यामदात् , तथा अन्येनापि विद्या दातव्येति आख्यायिकार्थः । एतद्वैश्वानरविज्ञानमुवाचेति वक्ष्यमाणेन सम्बन्धः ॥

स हेत्यादि सोपस्कार व्याचष्टे –

स हान्येद्युरित्यादिना ।

यथोक्तं शास्त्रप्रसिद्धमिति यावत् ।

किं तर्हि भगवदागमनस्य प्रयोजनं तदाह –

वयं चेति ।

तन्ममापि नास्तीति शङ्कां निरस्यति –

आत्मानमिति ।

शिष्यभावेनोपसन्नेभ्यो विद्या दातव्या न यथाकथञ्चिदिति राज्ञोऽभिप्रायः ।

ते हेत्यादिवाक्यस्य तात्पर्यं दर्शयति –

यतइति ।

योगक्षेमार्थं राजानं प्रत्युपगमनमिष्टमेवेति मन्वानो विशिनष्टि –

विद्यार्थिन इति ।

तथेत्यत्रातःशब्दो द्रष्टव्यः । उपनयनं पादयोर्निपातनम् । वक्ष्यमाणं वैश्वानरविज्ञानं तेनैतदित्यस्य संबन्ध इति यावत् ।

आख्यायिकातात्पर्यमुपसंहरति –

यथेति ॥५-६-७॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्यैकादशः खण्डः ॥