छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःद्वादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते मूर्धा त्वेष आत्मन इति होवाच मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्य इति ॥ २ ॥
अत्स्यन्नं दीप्ताग्निः सन् पश्यसि च पुत्रपौत्रादि प्रियमिष्टम् । अन्योऽप्यत्त्यन्नं पश्यति च प्रियं भवत्यस्य सुतं प्रसुतमासुतमित्यादि कर्मित्वं ब्रह्मवर्चसं कुले, यः कश्चित् एतं यथोक्तम् एवं वैश्वानरमुपास्ते । मूर्धा त्वात्मनो वैश्वानरस्य एष न समस्तो वैश्वानरः । अतः समस्तबुद्ध्या वैश्वानरस्योपासनात् मूर्धा शिरस्ते विपरीतग्राहिणो व्यपतिष्यत् विपतितमभविष्यत् यत् यदि मां नागतोऽभविष्यः । साध्वकार्षीः यन्मामागतोऽसीत्यभिप्रायः ॥

न केवलं प्राचीनशालनिष्ठमिदं फलं किन्त्वन्यस्यापि भवतीत्याह –

अन्योऽपीति ।

तर्हि यथोक्तवैश्वानरज्ञानादेव कृतकृत्यतेत्याशङ्क्याऽऽह –

मूर्धा त्विति ।

अक्षरार्थमुक्त्वा विवक्षितार्थमाह –

साध्विति ॥२॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य द्वादशः खण्डः ॥