छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःत्रयोदशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ होवाच सत्ययज्ञं पौलुषिं प्राचीनयोग्य कं त्वमात्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति होवाचैष वै विश्वरूप आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्तव बहु विश्वरूपं कुले दृश्यते ॥ १ ॥
अथ होवाच सत्ययज्ञं पौलुषिम् — हे प्राचीनयोग्य कं त्वमात्मानमुपास्से इति ; आदित्यमेव भगवो राजन् इति ह उवाच । शुक्लनीलादिरूपत्वाद्विश्वरूपत्वमादित्यस्य, सर्वरूपत्वाद्वा, सर्वाणि रूपाणि हि त्वाष्ट्राणी यतः, अतो वा विश्वरूप आदित्यः ; तदुपासनात् तव बहु विश्वरूपमिहामुत्रार्थमुपकरणं दृश्यते कुले ॥

अथ प्राचीनशाले तूष्णींभूते जिज्ञासमाने सत्यनन्तरमित्यर्थः । आदित्यस्य शुक्लत्वादिरूपत्वमष्टमे स्पष्टीभविष्यति । तस्य सर्वरूपत्वेन विश्वरूपत्वमुक्तमुपपादयति –

सर्वाणीति ॥१॥