छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःचतुर्दशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते प्राणस्त्वेष आत्मन इति होवाच प्राणस्य उदक्रमिष्यद्यन्मां नागमिष्य इति ॥ २ ॥
अत्स्यन्नमित्यादि समानम् । प्राणस्त्वेष आत्मन इति ह उवाच । प्राणस्ते तव उदक्रमिष्यत् उत्क्रान्तोऽभविष्यत् , यन्मां नागमिष्य इति ॥

अस्त्यन्नमित्यादि समानमित्यत्राऽऽदिपदमुपास्त इत्यन्तवाक्यसंग्रहार्थम् । उत्तरवाक्येऽप्यभिप्रायसाम्यं मत्वाऽऽह –

प्राणस्त्विति ॥२॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य चतुर्दशः खण्डः ॥

प्राणाग्निहोत्रस्य वैशिष्ट्ये हेत्वन्तरमतःशब्दोपात्तं प्रश्नपूर्वकं प्रकटयति –

कथमित्यादिना ।

नैयमिकाग्निहोत्रनिन्दाद्वारा प्राणाग्निहोत्रस्तुत्यनन्तरं विधान्तरेण तस्यैव निरवद्यता कीर्त्यत इत्यथशब्दार्थः ।

एतदिति वैश्वानरदर्शनमुक्तम् –

एवमिति ।

वैश्वानरस्योक्तसर्वात्मत्वादिप्रकारेणेत्यर्थः । अग्निहोत्रमिति साम्पादिकमग्निहोत्रं गृह्यते ।

कथमिदमुक्तार्थं सर्वेषु लोकादिष्वन्नमत्तीति वाक्यं व्याख्यातं तस्य सर्वेषु लोकादिषु हुतं भवतीत्यन्यादृशमिदं वाक्यं तत्राऽऽह –

हृतमिति ॥२॥