छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःषोडशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ होवाच बुडिलमाश्वतराश्विं वैयाघ्रपद्य कं त्वमात्मानमुपास्स इत्यप एव भगवो राजन्निति होवाचैष वै रयिरात्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वं रयिमान्पुष्टिमानसि ॥ १ ॥
अथ ह उवाच बुडिलमाश्वतराश्विमित्यादि समानम् । एष वै रयिरात्मा वैश्वानरो धनरूपः । अद्भ्योऽन्नं ततो धनमिति । तस्माद्रयिमान् धनवान् त्वं पुष्टिमांश्च शरीरेण पुष्टेश्चान्ननिमित्तत्वात् ॥

जनस्योपरमानन्तर्यमथशब्दार्थः । कथमबात्मको वैश्वानरो रयिरिति धनेन निर्दिश्यते तत्राऽऽह –

अद्भ्य इति ।

आयुर्वै घृतमितिवत्कार्यवाचकेन कारणं लक्ष्यत इत्यर्थः । तस्माद्यथोक्तवैश्वानरोपासनादित्येतत् ।

धनरूपवैश्वानरोपासनाद्धनवानित्येव वक्तव्ये कथं पुष्टिमानित्यधिकावापस्तत्राऽऽह –

पुष्टेश्चेति ॥१॥