छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःएकोनविंशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं स यां प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहेति प्राणस्तृप्यति ॥ १ ॥
तत् तत्रैवं सति यद्भक्तं प्रथमं भोजनकाले आगच्छेद्भोजनार्थम् , तद्धोमीयं तद्धोतव्यम् , अग्निहोत्रसम्पन्मात्रस्य विवक्षितत्वान्नाग्निहोत्राङ्गेतिकर्तव्यताप्राप्तिरिह ; स भोक्ता यां प्रथमामाहुतिं जुहुयात् , तां कथं जुहुयादिति, आह — प्राणाय स्वाहेत्यनेन मन्त्रेण ; आहुतिशब्दात् अवदानप्रमाणमन्नं प्रक्षिपेदित्यर्थः । तेन प्राणस्तृप्यति ॥

एवं सतीत्युक्तन्यायेनाग्निहोत्रे संपादिते सतीत्यर्थः । संपादितस्याग्निहोत्रत्वस्य सामान्यादग्न्युद्धरणादीनि तदङ्गान्यत्र भवेयुरित्याशङ्क्य तद्बुद्धिमात्रस्य विवक्षितत्वान्मैवमित्याह –

अग्निहोत्रेति ।

इहेति वैश्वानरविदो भोजनमुच्यते ।

प्रकृतहोमगतावान्तरविभागमाह –

स भोक्तेति ।

कथमिति मन्त्रो वा द्रव्यपरिमाणं वा फलं वा पृच्छ्यते तत्र प्रथमं प्रत्याह –

प्राणायेति ।

यदि द्वितीयस्तत्राऽऽह –

आहुतीति ।

अवदानस्य प्रमाणं परिमाणं कर्मिणां प्रसिद्धं तेन परिमितमिति यावत् ।

तृतीयश्चेत्तत्राऽऽह –

तेनेति ॥१॥