छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःचतुर्विंशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥ २ ॥
अतश्च एतद्विशिष्टमग्निहोत्रम् । कथम् ? अथ य एतदेवं विद्वान् अग्निहोत्रं जुहोति, तस्य यथोक्तवैश्वानरविज्ञानवतः सर्वेषु लोकेष्वित्याद्युक्तार्थम् , हुतम् अन्नमत्ति इत्यनयोरेकार्थत्वात् ॥

प्राणाग्निहोत्रस्य वैशिष्ट्ये हेत्वन्तरमतःशब्दोपात्तं प्रश्नपूर्वकं प्रकटयति –

कथमित्यादिना ।

नैयमिकाग्निहोत्रनिन्दाद्वारा प्राणाग्निहोत्रस्तुत्यनन्तरं विधान्तरेण तस्यैव निरवद्यता कीर्त्यत इत्यथशब्दार्थः ।

एतदिति वैश्वानरदर्शनमुक्तम् –

एवमिति ।

वैश्वानरस्योक्तसर्वात्मत्वादिप्रकारेणेत्यर्थः । अग्निहोत्रमिति साम्पादिकमग्निहोत्रं गृह्यते ।

कथमिदमुक्तार्थं सर्वेषु लोकादिष्वन्नमत्तीति वाक्यं व्याख्यातं तस्य सर्वेषु लोकादिषु हुतं भवतीत्यन्यादृशमिदं वाक्यं तत्राऽऽह –

हृतमिति ॥२॥