इतश्च वैश्वानरविद्यावतोऽग्निहोत्रं विशिष्टमिति वक्तुं वैश्वानरविद्यां स्तौति –
किं चेति ।
तत्र वैश्वानरविद्यामाहात्म्ये दृष्टान्त इति यावत् । इषीकाया मुञ्जामध्यवर्तितृणस्येत्येतत् ।
सर्वशब्दात्प्रारब्धकर्मणोऽपि दाहमाशङ्क्याऽऽह –
वर्तमानेति ।
वैश्वानरविद्याया महाफलत्वे सिद्धे तद्वतोऽग्निहोत्रं विशिष्टमिति तत्कर्तुः सर्वदोषास्पर्शित्वमित्याशयेनाऽऽह –
य एतदिति ॥३॥