छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःचतुर्विंशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तस्मादु हैवंविद्यद्यपि चण्डालायोच्छिष्टं प्रयच्छेदात्मनि हैवास्य तद्वैश्वानरे हुतं स्यादिति तदेष श्लोकः ॥ ४ ॥
स यद्यपि चण्डालाय उच्छिष्टानर्हाय उच्छिष्टं दद्यात् प्रतिषिद्धमुच्छिष्टदानं यद्यपि कुर्यात् , आत्मनि हैव अस्य चण्डालदेहस्थे वैश्वानरे तद्धुतं स्यात् न अधर्मनिमित्तम् —इति विद्यामेव स्तौति । तदेतस्मिन्स्तुत्यर्थे श्लोकः मन्त्रोऽप्येष भवति ॥

विद्यामेव विद्यास्तुतिद्वाराऽग्निहोत्रमिति यावत् । स्तुत्यर्थेऽग्निहोत्रस्य स्तुतिरूपो योऽर्थस्तस्मिन्नित्येतत् ॥४॥