छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःचतुर्विंशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
यथेह क्षुधिता बाला मातरं पर्युपासत एवं सर्वाणि भूतान्यग्निहोत्रमुपासत इत्यग्निहोत्रमुपासत इति ॥ ५ ॥
यथा इह लोके क्षुधिता बुभुक्षिता बाला मातरं पर्युपासते — कदा नो माता अन्नं प्रयच्छतीति, एवं सर्वाणि भूतान्यन्नादानि एवंविदः अग्निहोत्रं भोजनमुपासते — कदा त्वसौ भोक्ष्यत इति, जगत्सर्वं विद्वद्भोजनेन तृप्तं भवतीत्यर्थः । द्विरुक्तिरध्यायपरिसमाप्त्यर्था ॥

मन्त्रस्य तात्पर्यार्थं दर्शयति –

जगदिति ।

विदुषो वैश्वानरात्मनः सर्वात्मत्वादित्यर्थः ॥५॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य चतुर्विंशः खण्डः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां च्छान्दोग्योपनिषद्भाष्यटीकायां पञ्चमोऽध्यायः समाप्तः ॥