छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
श्वेतकेतुर्हारुणेय आस तꣳ ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यं न वैसोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति ॥ १ ॥
पितापुत्राख्यायिका विद्यायाः सारिष्ठत्वप्रदर्शनार्था । श्वेतकेतुरिति नामतः, ह इत्यैतिह्यार्थः, आरुणेयः अरुणस्य पौत्रः आस बभूव । तं पुत्रं ह आरुणिः पिता योग्यं विद्याभाजनं मन्वानः तस्योपनयनकालात्ययं च पश्यन् उवाच — हे श्वेतकेतो अनुरूपं गुरुं कुलस्य नो गत्वा वस ब्रह्मचर्यम् ; न च एतद्युक्तं यदस्मत्कुलीनो हे सोम्य अननूच्य अनधीत्य ब्रह्मबन्धुरिव भवतीति ब्राह्मणान्बन्धून्व्यपदिशति न स्वयं ब्राह्मणवृत्त इति । तस्य अतः प्रवासो अनुमीयते पितुः, . येन स्वयं गुणवान्सन् पुत्रं नोपनेष्यति ॥

अध्यायतात्पर्यमुक्त्वाऽऽख्यायिकातात्पर्यमाह –

पितेति ।

पिता प्रतिवक्ता पुत्रश्च प्रष्टेत्येवंविधेयमाख्यायिका । सा च विद्यायाः सारिष्ठत्वद्योतनार्था । पिता हि पुत्राय सारतममेवोपदिशतीत्यर्थः । कुलस्यानुरूपमित्यादिवचनान्न कुलाधमस्य गुरुत्वमिति गम्यते । ब्रह्मचर्यमध्ययनार्थमिति शेषः । गत्वेत्यादिवचनान्माणवकाधीनमध्ययनमिति सूचितम् ।

मा भूदुपनयनमध्ययनं चेत्याशङ्क्याऽऽह –

न चैतद्युक्तमिति ॥१॥