छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स ह द्वादशवर्ष उपेत्य चतुर्विꣳशतिवर्षः सर्वान्वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय तꣳह पितोवाच ॥ २ ॥
सः पित्रोक्तः श्वेतकेतुः ह द्वादशवर्षः सन् उपेत्य आचार्यं यावच्चतुर्विंशतिवर्षो बभूव, तावत् सर्वान्वेदान् चतुरोऽप्यधीत्य तदर्थं च बुद्ध्वा महामनाः महत् गम्भीरं मनः यस्य असममात्मानमन्यैर्मन्यमानं मनः यस्य सोऽयं महामनाः अनूचानमानी अनूचानमात्मानं मन्यत इति एवंशीलो यः सोऽनूचानमानी स्तब्धः अप्रणतस्वभावः एयाय गृहम् । तम् एवंभूतं ह आत्मनोऽननुरूपशीलं स्तब्धं मानिनं पुत्रं दृष्ट्वा पितोवाच सद्धर्मावतारचिकीर्षया ॥

किमिति पिता स्वयमेवोपनीय पुत्रं नाध्यापयति तत्राऽऽह –

तस्येति ।

अतःशब्दः स्वगृहविषयः ।

अनुमानं कल्पनं तत्र कल्पकमाह –

येनेति ।

अनूचानोऽनुवचनसमर्थः । कर्मव्युत्पत्त्या करणव्युत्पत्त्या चाऽऽदेशशब्दो व्याख्यातः ॥२॥