छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यः येनाश्रुतꣳ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति कथं नु भगवः स आदेशो भवतीति ॥ ३ ॥
श्वेतकेतो यन्नु इदं महामनाः अनूचानमानी स्तब्धश्चासि, कस्तेऽतिशयः प्राप्तः उपाध्यायात् , उत अपि तमादेशं आदिश्यत इत्यादेशः केवलशास्त्राचर्योपदेशगम्यमित्येतत् , येन वा परं ब्रह्म आदिश्यते स आदेशः तमप्राक्ष्यः पृष्टवानस्याचार्यम् ? तमादेशं विशिनष्टि — येन आदेशेन श्रुतेन अश्रुतमपि अन्यच्छ्रुतं भवति अमतं मतम् अतर्कितं तर्कितं भवति अविज्ञातं विज्ञातं अनिश्चितं निश्चितं भवतीति । सर्वानपि वेदानधीत्य सर्वं च अन्यद्वेद्यमधिगम्यापि अकृतार्थ एव भवति यावदात्मतत्त्वं न जानातीत्याख्यायिकातोऽवगम्यते । तदेतदद्भुतं श्रुत्वा आह, कथं नु एतदप्रसिद्धम् अन्यविज्ञानेनान्यद्विज्ञातं भवतीति ; एवं मन्वानः पृच्छति — कथं नु केन प्रकारेण हे भगवः स आदेशो भवतीति ॥

किमित्यधीतसर्ववेदमधिगततदर्थं च पुत्रमात्मविद्यामधिकृत्य पिता पृच्छति तस्य सर्ववेदाध्ययनादिनैव कृतार्थत्वादित्याशङ्क्याऽऽह –

सर्वानपीति ।

तदेतदद्भुतं श्रुत्वाऽऽहेत्युक्तं विवृणोति –

कथं न्विति ॥३॥