छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातꣳ स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥ ४ ॥
यथा स आदेशो भवति तच्छृणु हे सोम्य — यथा लोके एकेन मृत्पिण्डेन रुचककुम्भादिकारणभूतेन विज्ञातेन सर्वमन्यत्तद्विकारजातं मृन्मयं मृद्विकारजातं विज्ञातं स्यात् । कथं मृत्पिण्डे कारणे विज्ञाते कार्यमन्यद्विज्ञातं स्यात् ? नैष दोषः, कारणेनानन्यत्वात्कार्यस्य । यन्मन्यसे अन्यस्मिन्विज्ञातेऽन्यन्न ज्ञायत इति — सत्यमेवं स्यात् , यद्यन्यत्कारणात्कार्यं स्यात् , न त्वेवमन्यत्कारणात्कार्यम् । कथं तर्हीदं लोके — इदं कारणमयमस्य विकार इति ? शृणु । वाचारम्भणं वागारम्भणं वागालम्बनमित्येतत् । कोऽसौ ? विकारो नामधेयं नामैव नामधेयम् , स्वार्थे धेयप्रत्ययः, वागालम्बनमात्रं नामैव केवलं न विकारो नाम वस्त्वस्ति ; परमार्थतो मृत्तिकेत्येव मृत्तिकैव तु सत्यं वस्त्वस्ति ॥

मृन्मयमित्यस्य व्याख्या मृद्विकारजातमिति । तद्यथा मृत्पिण्डेन विज्ञातेन विज्ञातं स्यात्तथाऽन्यदपि सर्वं कारणेन विज्ञातेन तद्विकारजातं विज्ञातं भवतीति योजना । अन्यविज्ञानादन्यविज्ञानमदृष्टत्वादश्लिष्टमिति शङ्कते –

कथमिति ।

कार्यकारणयोरन्यत्वासिद्धेर्मैवमिति परिहरति –

नैष दोष इति ।

तदेव स्फुटयति –

यन्मन्यस इत्यादिना ।

अन्यत्वाभावे लोकप्रसिद्धिविरोधं शङ्कते –

कथं तर्हीति ।

वाचाऽऽरम्भणमित्यत्र वाचेति तृतीया षष्ठ्यर्थे द्रष्टव्या ।

नामधेयमित्यस्यार्थं कथयति –

नामैवेति ।

विकारस्य मिथ्यात्वे किं परमार्थतोऽस्तीत्याशङ्क्याऽऽह –

मृत्तिकेत्येवेति ॥४॥