छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
न वै नूनं भगवन्तस्त एतदवेदिषुर्यद्ध्येतदवेदिष्यन्कथं मे नावक्ष्यन्निति भगवाꣳस्त्वेव मे तद्ब्रवीत्विति तथा सोम्येति होवाच ॥ ७ ॥
न वै नूनं भगवन्तः पूजावन्तः गुरवः मम ये, ते एतत् यद्भवदुक्तं वस्तु नावेदिषुः न विज्ञातवन्तः नूनम् । यत् यदि हि अवेदिष्यन् विदितवन्तः एतद्वस्तु, कथं मे गुणवते भक्तायानुगताय नावक्ष्यन् नोक्तवन्तः, तेनाहं मन्ये — न विदितवन्त इति । अवाच्यमपि गुरोर्न्यग्भावमवादीत् पुनर्गुरुकुलं प्रति प्रेषणभयात् । अतो भगवांस्त्वेव मे मह्यं तद्वस्तु, येन सर्वज्ञत्वं ज्ञातेन मे स्यात् , तद्ब्रवीतु कथयतु ; इत्युक्तः पितोवाच — तथास्तु सोम्येति ॥

एकेनैव दृष्टान्तेन विवक्षितार्थसिद्धौ किमनेकदृष्टान्तोपादानेनेत्याशङ्क्याऽऽह –

अनेकेति ।

न वा इत्यादिप्रतीकमादाय व्याचष्टे –

भगवन्त इति ।

तेषामज्ञाने हेतुमाह –

यदित्यादिना ।

ननु श्वेतकेतुर्गुरूणामज्ञानमाचक्षाणो गुरुद्रोही प्रत्यवायी स्यादित्याशङ्क्याऽऽह –

अवाच्यमपीति ।

गुरुणामज्ञानमतःशब्दार्थः ॥६-७॥

इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य प्रथमः खण्डः ॥