छान्दोग्योपनिषद्भाष्यम्
षष्ठोऽध्यायःद्वितीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत तत्तेज ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत । तस्माद्यत्र क्वच शोचति स्वेदते वा पुरुषस्तेजस एव तदध्यापो जायन्ते ॥ ३ ॥
तत् सत् ऐक्षत ईक्षां दर्शनं कृतवत् । अतश्च न प्रधानं साङ्ख्यपरिकल्पितं जगत्कारणम् , प्रधानस्याचेतनत्वाभ्युपगमात् । इदं तु सत् चेतनम् , ईक्षितृत्वात् । तत्कथमैक्षतेति, आह — बहु प्रभूतं स्यां भवेयं प्रजायेय प्रकर्षेणोत्पद्येय, यथा मृद्घटाद्याकारेण यथा वा रज्ज्वादि सर्पाद्याकारेण बुद्धिपरिकल्पितेन । असदेव तर्हि सर्वम् , यद्गृह्यते रज्जुरिव सर्पाद्याकारेण । न, सत एव द्वैतभेदेन अन्यथागृह्यमाणत्वात् न असत्त्वं कस्यचित्क्वचिदिति ब्रूमः । यथा सतोऽन्यद्वस्त्वन्तरं परिकल्प्य पुनस्तस्यैव प्रागुत्पत्तेः प्रध्वंसाच्चोर्ध्वम् असत्त्वं ब्रुवते तार्किकाः, न तथा अस्माभिः कदाचित्क्वचिदपि सतोऽन्यदभिधानमभिधेयं वा वस्तु परिकल्प्यते । सदेव तु सर्वमभिधानमभिधीयते च यदन्यबुद्ध्या, यथा रज्जुरेव सर्पबुद्ध्या सर्प इत्यभिधीयते, यथा वा पिण्डघटादि मृदोऽन्यबुद्ध्या पिण्डघटादिशब्देनाभिधीयते लोके । रज्जुविवेकदर्शिनां तु सर्पाभिधानबुद्धी निवर्तेते, यथा च मृद्विवेकदर्शिनां घटादिशब्दबुद्धी, तद्वत् सद्विवेकदर्शिनामन्यविकारशब्दबुद्धी निवर्तेते — ‘यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह’ (तै. उ. २ । ९ । १) इति, ‘अनिरुक्तेऽनिलयने’ (तै. उ. २ । ७ । १) इत्यादिश्रुतिभ्यः । एवमीक्षित्वा तत् तेजः असृजत तेजः सृष्टवत् । ननु ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इति श्रुत्यन्तरे आकाशाद्वायुः ततस्तृतीयं तेजः श्रुतम् , इह कथं प्राथम्येन तस्मादेव तेजः सृज्यते तत एव च आकाशमिति विरुद्धम् ? नैष दोषः, आकाशवायुसर्गानन्तरं तत्सत् तेजोऽसृजतेति कल्पनोपपत्तेः । अथवा अविवक्षितः इह सृष्टिक्रमः ; सत्कार्यमिदं सर्वम् , अतः सदेकमेवाद्वितीयमित्येतद्विवक्षितम् , मृदादिदृष्टान्तात् । अथवा त्रिवृत्करणस्य विवक्षितत्वात् तेजोबन्नानामेव सृष्टिमाचष्टे । तेज इति प्रसिद्धं लोके दग्धृ पक्तृ प्रकाशकं रोहितं चेति । तत् सत्सृष्टं तेजः ऐक्षत तेजोरूपसंस्थितं सत् ऐक्षतेत्यर्थः । बहु स्यां प्रजायेयेति पूर्ववत् । तत् अपोऽसृजत आपः द्रवाः स्निग्धाः स्यन्दिन्यः शुक्लाश्चेति प्रसिद्धा लोके । यस्मात्तेजसः कार्यभूता आपः, तस्माद्यत्र क्वच देशे काले वा शोचति सन्तप्यते स्वेदते प्रस्विद्यते वा पुरुषः तेजस एव तत् तदा आपः अधिजायन्ते ॥

अद्वितीयत्वसमर्थनार्थमुत्तरवाक्यमुत्थाप्य व्याचष्टे –

तत्सदिति ।

सच्छब्दवाच्यं जगत्कारणं प्रधानमिति केचित्तदप्येतेन निरस्तमित्याह –

अतश्चेति ।

ईक्षापूर्वकारित्वादिति यावत् । अचेतनत्वाभ्युपगमान्न तस्येक्षापूर्वकं स्रष्टृत्वमिति शेषः । परिणामविवर्तवादावाश्रित्योदाहरणद्वयम् ।

बहु स्यामित्यादिश्रुतितात्पर्यं वक्तुं निरस्तमेव चोद्यमुद्भावयति –

असदेवेति ।

बहु स्यां प्रजायेयेत्यनेनेक्षितुरेव कार्याकारापत्तिवचनेन वैशेषिकादिमतमेतन्निरस्तमिति श्रुतितात्पर्यं दर्शयन्नुतरमाह –

नेत्यादिना ।

तदेव प्रपञ्चयति –

यथेत्यादिना ।

प्रतिज्ञातमर्थं मतद्वयानुसारेण दृष्टान्ताभ्यां स्पष्टयति –

यथा रज्जुरिति ।

अज्ञानान्वयव्यतिरेकाभ्यां रज्जुसर्पादेरज्ञानमयत्वे च द्वैताभिनिवेशस्य सन्मात्राविवेके सत्येवोत्पत्तेर्विचारेण तद्विवेके चानुत्पत्तेर्द्वैतमप्यज्ञानमयमेव तस्य तु तत्त्वं सन्मात्रमधिष्ठानं वाङ्मनसातीतमित्यर्थः ।

तस्य वाङ्मनसातीतत्वे प्रमाणमाह –

यत इति ।

अन्यदेव तद्विदितादित्यादिवाक्यमादिपदार्थः ।

तैत्तिरीयकश्रुतिविरोधमाशङ्कते –

नन्विति ।

तथाऽपि कथं विरोधधीरित्याशङ्क्याह –

इति विरुद्धमिति ।

अस्यां श्रुतौ सतः सकाशादेव प्राथम्येन तेजः सृज्यमानमुच्यते श्रुत्यन्तरे तु तस्मादेव सतः सकाशादाकशं प्राथम्येन सृष्टमित्युपदिष्टं तथा च कथमिदं मिथो विरुद्धं सिद्ध्यतीत्यर्थः ।

तैत्तिरीयकश्रुत्यनुसारेण च्छान्दोग्यश्रुतेर्व्याख्यानसम्भवान्न विरोधोऽस्तीति परिहरति –

नैष दोष इति ।

सृष्टिक्रमस्य विवक्षितत्वमङ्गीकृत्योक्तं तदेव नास्त्यद्वितीयत्वं तु सतो विवक्षितमिति पक्षान्तरमाश्रित्याऽऽह –

अथ वेति ।

तत्र गमकं दर्शयति –

मृदादीति ।

मृदादिकार्यं घटादितद्व्यतिरेकेण नास्ति मृदाद्येव तु सत्यमितिदृष्टान्ते अपादानाद्ब्रह्मणः सतस्तेजोबन्नादिकार्यं तदतिरेकेण नास्ति सन्मात्रमेव सत्यमिति दार्ष्टान्तिकेऽपि विवक्षितं प्रतिभातीत्यर्थः ।

तत्तेजोऽसृजतेत्यादिश्रुतेस्तात्पर्यान्तरमाह –

अथवा त्रिवृत्करणस्येति ।

तासां त्रिवृतं त्रिवृतमेकैकां करवाणीत्यादौ त्रिवृत्करणस्येष्टत्वात् त्रयाणामेव भूतानामिह सृष्टिरुच्यते । न चैवं पञ्चीकरणमविवक्षितमिति वाच्यम्, भूतत्रयसृष्टिश्रुतौ श्रुत्यन्तरसिद्धाकाशादिसृष्टेरुपलक्षणवत् त्रिवृत्करणश्रुत्या पञ्चीकरणोपलक्षणात् । तथा च श्रुत्यन्तरसिद्धयोराकाशवाय्वोस्तेजःप्रभृतिष्वन्तर्भावमभिप्रेत्य लघूपायेन सर्वस्य सन्मात्रत्वं मन्तव्यमिति मन्वाना श्रुतिस्त्रिवृत्करणमेवाऽऽचक्षाणा तदनुरोधेन त्रयाणामेव सृष्टिमाहेत्यर्थः ।

तेजसोऽचेतनस्य कथमीक्षितृत्वमित्याशङ्क्य वाक्यार्थमाह –

तेजोरूपेति ।

अपां तेजःकार्यत्वे लोकानुभवमनुकूलयति –

यस्मादिति ॥३॥